________________
जीवविचारादि
प्रकरण
चतुष्टयम्
शेषे पृथिव्यप्तेजोवनस्पतिद्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियरूपे दण्डके सप्तके त्रयो वेदना - कषाय - मरणरूपा भवन्ति इति नवमं द्वारं सम्पूर्णम् ९ ॥ अथ दशमं दृष्टिरूपं द्वारमाह -
विगल दुदिट्ठी थावर मिच्छत्ति सेस तिअदिट्ठी ॥ १६ ॥
अयमर्थः - विकले द्वीन्द्रिय-त्रीन्द्रियचतुरिन्द्रियरूपे सम्यग्दृष्टि १ मिथ्यादृष्टि २ रूपं दृष्टिद्वयं भवति, तथा 'थावर मिच्छत्ती' स्थावराः पृथिव्यप्तेजोवायुवनस्पतयः मिथ्यात्विनः, तथा 'सेस तियदिट्ठी' शेषाः नारकसुरतिर्यग्मनुष्यरूपाः | षोडश दण्डकाः दृष्टित्रयवन्तः इति दशमं द्वारं सम्पूर्णम् १० ॥ १६॥ अथैकादशं दर्शनद्वारमाह -
थावरबितिसु अचक्खू चउरिंदिसु तदुगं सुए भणियं । मणुआ चउदंसणिणो सेसेसु तिगं तिगं भणियं ॥१७॥
स्थावराः पृथिव्यप्तेजोवायुवनस्पतिरूपाः पञ्च द्वीन्द्रियत्रीन्द्रियाश्चैतेषु सप्तदण्डकेषु एकं अचक्षुर्दर्शनं भवति, तथा | चउरिंदिसु तदुगं चतुरिन्द्रियेषु तयोश्चक्षुर्दर्शनाऽचक्षुर्दर्शनयोर्द्विकं श्रुते प्रज्ञापनादौ भणितं, तथा मनुष्याश्चतुर्दर्शनिनः चक्षुर्दर्शन
दंडक
॥१०२॥