________________
दंडक
6060600606060606d6d6ood
एकेन्द्रिये पृथिव्यप्तेजोवायुवनस्पतिरूपे एक स्पर्शनेन्द्रियं तथा द्वीन्द्रिये शंखप्रमुखे स्पर्शन-रसने द्वे इन्द्रिये, अथ त्रीन्द्रिये कीटिकाजूकादिके स्पर्शन-रसन-घ्राणानि त्रीणीन्द्रियाणि, चतुरिन्द्रिये भ्रमरादिके स्पर्शन-रसन-घ्राण-चक्षूरूपाणि चत्वारीन्द्रियाणि, पञ्चेन्द्रिये नारक-तिर्यग्-मनुष्य-देवरूपे स्पर्शन-रसन-घ्राण-चक्षुःश्रोत्राणि पञ्चेन्द्रियाणि भवन्ति इति अष्टमं इन्द्रियद्वारं सम्पूर्णम् ८ । अथ नवमं समुद्घातरूपद्वारमाह -
मणुआण सत्त समुग्घाया ॥१५॥ मनुष्येषु सप्त समुद्घाताः वेदना १ कषाय २ मरण ३ वैक्रिय ४ आहारक ५ तैजस ६ केवलि ७ रूपाः ॥१५।। तथा-१
पणगब्भतिरिसुरेसु । गर्भजतिर्यग्-सुरयोः पञ्च समुद्घाताः आहारक १ केवलि २ समुद्घातौ न भवतः । तथा -
नारयवाउसु चउर । नारकवाय्वोः चत्वारः समुद्घाताः आहारक १ तैजस २ केवलि ३ समुद्घातत्रयस्याभावात् । तथा -
तिय सेसे ।
ఆగసాగనిగలాగసాగనగపొగతాగసాగసాగసాడు
जीवविचारादिप्रकरणचतुष्टयम्
॥१०१॥