SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ जीवविचारादि प्रकरण चतुष्टयम् जोइसिय तेउलेसा सेसा सव्वेवि हुंति चउलेसा । गर्भजतिर्यग्-मनुष्येषु लेश्याषट्कं भवति । तथा नारक-तेजोवायु-विकलाः वैमानिकाश्च त्रिलेश्या:, अत्र विशेषतो विवेचनं क्रियते, तथाहि प्रथमायां द्वितीयायां च नरकपृथिव्यां कापोता तृतीयस्यामुपरि कापोताऽधो नीला चतुर्थ्यां नीला, पञ्चम्यां नीला कृष्णा, षष्ठीसप्तम्यो, पृथिव्योः कृष्णैव । तेजोवायुविकलाः कृष्ण-नील- कापोतलेश्यावन्तः । वैमानिका अनेन प्रकारेण त्रिलेश्याः, अयमर्थः - सौधर्मेशानयोः तेजोलेश्या, ततः कल्पत्रये पद्मा, ततो लान्तकादिषु कल्पेषु एका शुक्लैव ॥१४॥ ज्योतिष्का तेजोलेश्या:, ‘सेसा सव्वेवि हुंति चउलेसा' शेषा उक्तव्यतिरिक्ताः, के इत्याह - पृथिव्यपवनस्पतिभवनपतिव्यन्तराः | ते चतुर्लेश्याः, कथमित्याह - आदिलेश्यात्रयं स्वाभाविकं पृथिव्यप्वनस्पतिषु वर्तत एव, अथ केचित् तेजोलेश्यावन्तो देवा एतत्त्रयेषूत्पद्यन्ते तत् उत्पत्तिसमयेऽन्तर्मुहूर्तं पूर्वभविका तेजोलेश्या भवति, भवनपतिव्यन्तरास्तु स्वभावतश्चतुर्लेश्या एव इति सप्तमं द्वारं सम्पूर्णम् ॥७॥ अथाष्टमं द्वारं प्राह - इंदियदारं सुगमं । दंडक ॥१००॥
SR No.023508
Book TitleJivvicharadi Prakaran Chatushtyam
Original Sutra AuthorN/A
AuthorHemprabhvijay
PublisherDivyadarshan Trust
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy