SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ दंडक 600066606006 उपयोगो द्वेधा-साकारोपयोगः १ अनाकारोपयोगश्च २ । तत्र साकारोपयोगोऽष्टधा-पञ्चज्ञानानि ५ त्रीण्यज्ञानानि ३ । अनाकारोपयोगश्चतुर्धा-चक्षुर्दर्शनं १ अचक्षुर्दर्शनं २ अवधिदर्शनं ३ केवलदर्शनं ४ च सर्वमीलने द्वादश भेदा भवन्ति ॥१५॥ 'उववाउत्ति'-एकसमये समकालं कियन्त उत्पद्यन्ते ? १६ । 'चवणत्ति' एकसमये समकालं कियन्तः च्यवन्ते ? १७ । 'ठिइत्ति' स्थितिः आयुः, कस्य कियद्भवतीति तदायुद्वैधा-जघन्यं १ उत्कृष्टं २ च १८ । 'पज्जत्ति' पर्याप्तयो जीवशक्तिरूपाः कस्य कियत्यः ताश्चेमाः-आहारपर्याप्तिः १ शरीरपर्याप्तिः २ इन्द्रियपर्याप्तिः ३ श्वासोच्छ्वासपर्याप्तिः ४ भाषापर्याप्तिः ५ मनःपर्याप्तिः ६ १९ । "किमाहारेत्ति' के जीवाः कतिभ्यो दिग्भ्यः आगतमाहारं गृह्णन्ति २० । __'संणीत्ति' संज्ञा-विशिष्टसंज्ञां ताश्च तिस्रः, तथाहि-दीर्घकालिकी १ हेतुवादोपदेशिकी २ दृष्टिवादोपदेशिकी ३ च । एतासां १ चार्थोऽयं-त्रिकालविषयेऽर्थं जानाति सा दीर्घकालिकी संज्ञा, सा च समनस्कानामेव भवति १ यश्च स्वदेहपालनाहेतोः | इष्टवस्तुषु प्रवर्तते अहिताच्च निवर्तते वर्तमानकालविषये च यस्य चिन्तनं तस्य हेतुवादोपदेशिकी संज्ञा २ अथ यश्च । 60600600606/06/06d6dwidnice जीवविचारादिप्रकरणचतुष्टयम् ॥२२॥ 6066006
SR No.023508
Book TitleJivvicharadi Prakaran Chatushtyam
Original Sutra AuthorN/A
AuthorHemprabhvijay
PublisherDivyadarshan Trust
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy