SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ जीवविचारादि प्रकरणचतुष्टयम् समुद्घातौ द्वौ -एक: अजीवविषयोऽचित्तमहास्कन्धरूपः, तेनाचितमहास्कन्धरूपेण नात्र प्रयोजनं १ । द्वितीयो जीवविषय:स च सप्तधा, तथाहि - वेदनासमुद्घातः १ कषायसमुद्घातः २ मरणसमुद्घातः ३ वैक्रियसमुद्घातः ४ आहारकसमुद्घातः ५ तैजससमुद्घातः ६ केवलिसमुद्धातश्च ७ । तत्र समुद्धातलक्षणं किमित्युच्यते, समवहननात् आत्मप्रदेशानां विकरणं | समुद्घातः ९ । ॥३॥ दृष्टिस्त्रेधा - सम्यग्दृष्टिः १ मिथ्यादृष्टिः २ मिश्रदृष्टि ३ १० । दर्शनं चतुर्धा - तथाहि - चक्षुर्दर्शनं १ अचक्षुर्दर्शनं २ अवधिदर्शनं ३ केवलदर्शनं ४ च ११ । ज्ञानं पञ्चधा, तथाहि-मतिज्ञानं १ श्रुतज्ञानं २ अवधिज्ञानं ३ मनः पर्यवज्ञानं ४ केवलज्ञानं ५ च । अत्र ज्ञानसहचारित्वात् | अज्ञानत्रिकं अनुक्तमपि ग्राह्यं तत्त्रयं यथा मत्यज्ञानं १ श्रुताज्ञानं २ विभंगज्ञानं ३ च १३ । योगाः पञ्चदश ते चेमे- औदारिकयोगः १ औदारिकमिश्रयोगः २ वैक्रिययोगः ३ वैक्रियमिश्रयोगः ४ आहारकयोगः ५ आहारकमिश्रयोगः ६ तैजसकार्मणयोगः ७ एते शरीरसंबन्धिनो योगाः सप्त, पुनश्चत्वारो मनोयोगास्तथाहि - सत्यमनोयोगः १ | असत्यमनोयोगः २ सत्यामृषामनोयोगः ३ असत्यामृषामनोयोगश्च ४ । एवं चत्वारो वचनयोगास्तथाहि - सत्यवचनयोग: (१) असत्यवचनयोगः (२) सत्यामृषावचनयोगः (३) असत्यामृषावचनयोगश्च (४) । प्रकारत्रयमीलने पञ्चदश योगा भवन्ति १४ । दंडक ॥९१॥
SR No.023508
Book TitleJivvicharadi Prakaran Chatushtyam
Original Sutra AuthorN/A
AuthorHemprabhvijay
PublisherDivyadarshan Trust
Publication Year
Total Pages184
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy