________________
जीवविचारादिप्रकरण
चतुष्टयम्
अवगाहना-शरीरमानं तत् त्रेधा - जघन्यं १ मध्यमं २ उत्कृष्टं ३ च २ ।
संहननं-कर्मग्रन्थाभिप्रायेण अस्थिरचनारूपं तत् षोढा तथाहि - वज्रऋषभनाराचं १ ऋषभनाराचं २ नाराचं ३ अर्धनाराचं ४ कीलिका ५ सेवार्तं ६ च ३ ।
संज्ञाश्चतस्र-आहारसंज्ञा १ भयसंज्ञा २ मैथुनसंज्ञा ३ परिग्रहसंज्ञा ४ अथवा दश क्रोधसंज्ञा १ मानसंज्ञा २ मायासंज्ञा | ३ लोभसंज्ञा ४ लोकसंज्ञा ५ ओघसंज्ञा ६ पूर्वोक्त ४ संज्ञामीलने जाता दश १० । तत्र ओघसंज्ञा का इत्याह- अव्यक्तोपयोगरूपा वल्लीवितानारोहणादिरूपा ज्ञानावरणीयाऽल्पक्षयोपशमसमुद्भव च इति श्रीआचारांगवृत्तौ षष्ठपत्रे शेषं सुगमं ४ ।
संस्थानानि षट्, तथाहि–समचतुरस्त्रसंस्थान १ न्यग्रोध २ सादि ३ वामन ४ कुब्ज ५ हुंड ६ रूपाणि ५ । 'कषायाश्चत्वारस्ते च क्रोध १ मान २ माया ३ लोभ ४ रूपा: ६ |
लेश्याः षट् ताश्चेमाः-कृष्णलेश्या १ नीललेश्या २ कापोतलेश्या ३ तेजोलेश्या ४ पद्मलेश्या ५ शुक्ललेश्या ६ च । अत्र तु द्रव्यरूपा अवस्थितरूपा विचार्या न भावलेश्याः ७ ।
इन्द्रियाणि पञ्च तानीमानि - स्पर्शन १ रसन २ घ्राण ३ चक्षुः ४ श्रोत्र ५ रूपाणि ८ ॥
दंडक
॥९०॥