________________
तीर्थंकराणां सूत्रमागमः सिद्धान्तः इति यावत् तत्सूत्रं तस्य विचारस्तस्य लेशः एकदेशस्तस्य दर्शनं प्रकाशनं, तस्मात्, किं कृत्वा ? चतुर्विशतिजिनान् नत्वा प्रणम्य इति गाथा संक्षेपार्थः ॥१॥ अथ चतुर्विंशतिदण्डकान् नामग्राहमाह -
नेरइआ असुराई पुढवाई बेइंदियादओ चेव ।
गब्भयतिरिअमणुस्सा वंतरजोइसिअवेमाणी ॥२॥ नेरइआ-नारकास्तेषां सप्तानामपि कथंचित् सूत्रे एक एव दण्डको गणितः १ । असुराई-असुरादयः दश दण्डकाः । | असुरादयो दश ते चैते-असुरकुमाराः १ नागकुमारा: २ सुवर्णकुमाराः ३ विद्युत्कुमाराः ४ अग्निकुमाराः ५ द्वीपकुमाराः ६४
। उदधिकुमारा: ७ दिक्कुमाराः ८ वायुकुमारा ९ स्तनितकुमारा: १० इति ११ । पुढवाई इति पृथिव्यादयः पञ्च ते चैतेजीवविचारादि-६ पृथिवी १ अप् २ तेजो ३ वायु ४ वनस्पतिरूपाः ५ । अत्र च सूक्ष्माश्चतुर्दशलोकव्यापिनः पृथिव्यादयः अपर्याप्ता न प्रकरणचतुष्टयम्
३ ग्राह्यास्तेषां पृथक् द्वाराभावात् जाताः षोडश १६ । पुनः बेइंदियादओ इति द्वीन्द्रियादयस्त्रयस्ते चैते-द्वीन्द्रियाः १ त्रीन्द्रियाः |
२ चतुरिन्द्रियाः ३ जाता एकोनविंशतिः १९ । पुनः गर्भजतिर्यग्मनुष्याः, अयमर्थः-गर्भजतिर्यंच १ गर्भजमनुष्याश्च २ ततो