________________
श्री प्रव्रज्या०
श्री प्रद्यु
नीयवृत्तौ
॥७५॥
गणेशं कं करोम्यहम् ॥ ७ ॥ व्यूढो गणेशशब्दोऽयं, पुरा श्री गौदमादिभिः । यः स्थापयत्यपात्रे तं जानन् पापो महान् सहि ॥ ८ ॥ ततो दुर्बलिकापुष्पमित्रं चित्तं समीक्षते । ज्ञातेये हि न विश्रामो, महतां स्याद् गुणेषु तु ||९ स्वजनानां तु सूरीणां, भ्रातृत्वात् फल्गुरक्षितः । मातुलत्वान्मतो गोष्ठामाहिलश्च पदं प्रति ॥ १० ॥ सूरयोऽथ समग्रानप्याहूय स्वजनान् निजान् । कुटत्रयेण दृष्टान्तं चक्रुः स्वस्य तदग्रतः ॥ ११ ॥ अहं दुर्बलिकापुष्पमित्र निष्पावकुम्भवत् । रिक्तीभूतः समग्रेण, सूत्रार्थन्यसनेन हि |||१२|| तैलकुम्भनिभः फल्गुरक्षिते किंचनस्थितेः । अहं घृतघटो गोष्ठामाहिले तु बहुस्थितेः ॥ १३ ॥ तदेष सूत्रेणार्थेन, युक्तोऽस्याह गणेशिता । सर्वैरिति मते सूरिः, पुष्पमित्रमतोऽवदत् ||१४|| मद्वृत्या वर्त्तितव्यं मे, बन्धौ मम च मातुले । साधुसाध्वीगणेऽन्य स्मिन्नपि त्वं मद्वदाचर ॥ १५ ॥ तेषामपि ददौ शिक्षां, दृश्योऽयं सदृशो मया । युष्मत्कृताकृते सोढे, मयाऽयं न सहिष्यते ॥ १६ ॥ शिक्षां पक्षद्वये दवेत्याहारं परिहृत्य च । सुपर्वनिलयं जग्मुरार्यरक्षितसूरयः ॥ १७ ॥ मातुलोऽप्यागतोऽज्ञासीत्, सूरिं कालगतं तथा । निष्पावघटदृष्टान्तं ततः पृथगवास्थितः ||१८|| पश्चात् तत्रागतः सर्वैरभ्युत्थाय च भाषितः । तिष्ठेत्येवं न स त्वि - च्छनिजवादित्वगर्वितः ॥ १९ ॥ बहिः स्थितः पुनर्भेदविधानेन विदारितुम् । भेत्तुं नैवाशकत् सूरिवासितं श्रावकादिकम् ॥ २० ॥ इतश्चाचार्यवर्याणां कुर्वन्तमर्थ पौरुषम् । नाकर्णयत्ययं वक्ति, यूयं शृणुत साधवः ॥ २१ ॥ निष्पावककुटस्यास्य समीप इति मत्सरात् । द्वयर्थं तद्भाषित व्यर्थं मेनिरे ते निरेनसः || २२ || युग्मम् ।। तेषूत्थितेषु चावन्ध्यबुद्धिर्विन्ध्योऽनुभाषते । यदा तदा समेत्येष, सूर्युक्तायुक्तचिन्तया ||२३|| पूर्वेऽष्टमे तदा कर्म्मप्रवादाख्ये विचार्यते । जीवस्य कर्मणश्चापि कथं बन्धो भवेदिति ॥ २४ ॥ त्रिधा कर्म्म सूचीबन्धं, बद्धं स्पृष्टं निकाचितम् । सूचीकलापवद्वद्धं स्पृष्टं सूच्यः सकिट्टकाः ।। २५ ।। निकाचितं
३अवद्धा
माना
।। ७५ ।।