________________
अव्यक्ताः
प्रव्रज्या०
श्रीप्रद्यु
म्नीयवृत्ती
॥ ६९॥
FIRSANSACARAM
व्यक्तीकृते मृषा वाक्यं, न विश्वस्य क्वचित्ततः। संयता वाऽथ देवा वा, तत्राप्यप्रत्ययो महान् ॥१२॥ एवंविधैरसद्भावैर्वश्चयन्तः परानपि । बोधितास्तेऽथ संत्यक्ताः, कायोत्सर्गेण साधुभिः ॥१३॥ अव्यक्तास्ते च विख्याता, जम्मू राजगृहेऽन्यदा । मौर्यवंशोsभवंस्तत्र, बलभद्राभिधो नृपः।।१४।। तेन सुश्रावकेणैते, ज्ञातास्तत्र समागताः। भटान् प्रेष्य गुणशील चैत्यादानायिताश्च ते ॥१५॥ कटान् करटिनश्चैष, समानाय्यादिशद्भटान् । यदमून कटमर्दैन, मईतां शीघ्रमेव हि ॥१६॥ ते प्रोचिरे वयं विद्मः, प्रसिद्ध त्वामुपासकम् । पुनरेतावतः साधूननाथान् घातयिष्यास ॥ १७ ।। निष्कृपोऽथ नृपोऽवोचत्, के ययमिति वेत्ति कः ? । वैरिणः तस्करा वाऽथ, नृपघातकराः किमु ? ॥१८॥ ते प्रोचिरे महाराज!, निग्रन्थाः श्रमणा वयम् । स प्राह ययमव्यक्ताः, को वेत्ति श्रमणा न वा ॥ १९ ॥ श्रमणोपासकोऽहं च, भवामि न भवामि वा । मतं चेत् प्रतिपद्यध्वं, व्यवहारनयं ततः॥२०॥ तेऽथ बुद्धाः समंदाक्षा, निशङ्कमिति मेनिरे । श्रमणाः स्मो वयं ते च, ताडिता वचनैस्ततः ॥ २१ ॥ उक्ताश्च युष्मत्सम्बोधहेतवेऽदः कृतं मया । एवमुक्ताश्च श्रमणाः, क्षमिताश्च गताश्च ते ॥ २२ ॥
श्रीवीरस्वामिनः सिद्धि, गतस्याब्दशतद्वये । विंशत्याऽभ्यधिके जाते, जातस्तुर्योऽथ निहवः ॥१॥ समस्त्यशिथिला लक्ष्म्या, मिथिला नामतः पुरी। दशपूर्वमृदाचार्यस्तत्रायासीत् महागिरिः॥२॥ शिष्यस्तस्य च कौडिन्यः, सुमित्राख्योऽस्ति तत्र च । चैत्ये लक्ष्मीगृहाभिख्ये, सशिष्याः सन्ति सूरयः ॥३॥ अनुप्रवादपूर्वेऽसौ, वस्तुनैपुणिकाभिधम् । पठत्यालापकस्तत्रास्त्युच्छेदनयवाच्यगः ॥४॥ प्रत्युत्पन्ननैरयिका, व्युच्छेत्स्यन्त्यखिलाः किल । एवं भवनपत्याद्या, जीवा वैमानिका अपि ॥ ५॥ तस्यैमधीयानस्य, विचिकित्साऽजनीशी । व्युच्छेत्स्यन्ति मुनयोऽपि, सर्वोच्छेदो भविष्यति ॥ ६॥ जज्ञे तस्यास्थिर चित्तं, स्थविरैः
६९॥