________________
श्री
प्रव्रज्या०
श्रप्रिद्युः
नीयवृत्ती
॥ ६८ ॥
गुप्तं च श्राद्धो महति विष्टरे । प्रासुकं फलपक्कान्नान्नाद्यं तस्य पुरो न्यधात् ।। १५ ।। सर्वेषामपि वस्तूनामकैकं खण्डकं ददौ । ते दध्युः पुनरप्येष, सर्व वस्तु प्रदास्यति ॥ १६ ॥ पपात स च तस्यांहौ, स्वजनानप्यपातयत् । ऊचे च कृतकृत्योऽस्मि, यद्यूषं प्रतिलंभिताः ||१७|| तेऽदोऽसमंजसं दृष्ट्वाऽऽहुः किं श्राद्ध ! प्रतार्यते १ । भवदीयमतेनान्त्यः, प्रदेशः पूर्णरूपभाग् ॥ १८ ॥ ततः सर्वांशदानेन, भवन्तः प्रतिलंभिताः । न तु श्रीवर्द्धमानस्य, सिद्धान्तात्प्रतिलम्भिताः ॥ १९ ॥ सम्बुद्धास्ते ततः प्रोचुः, सम्यग्वः प्रेरणा ह्यसौ । सर्वथा प्रतिलभ्याथ, द्राग् मिथ्यादुष्कृतं कृतम् ॥ २० ॥ इति ते बोधिताः सर्वे, सुश्राद्धेन महात्मना । आलोचितप्रतिक्रान्ता विहरन्ति महीतले ॥ २१ ॥
चतुर्दशोत्तरे वीरसिद्धेरन्दशतद्वये । गते सति तृतीयोऽथ, निवोऽऽभिनवोऽभवत् ॥ १॥ श्वेतवी श्वेतवीहारहारिण्यस्ति पुरीवरा । उद्यानमस्ति पोलासं, सविलासं पतत्रिभिः ||२|| आर्याषाढाभिधास्तत्राचार्याचा चारवेदिनः । स्थिराः स्थिराशयास्तस्थुर्वहुसाधुपरिच्छदाः || ३ || आगाढयोगिनस्तस्य, शिष्याश्चाधीयते श्रुतम् । गुरोर्विसूचिका जज्ञे, प्राणसन्देहसूचिका ॥ ४ ॥ न कोऽप्युत्थापि तस्तेन, ततः कालगतोऽभवत् । सौधर्मे नलिनीगुल्मे, विमाने प्रवरः सुरः ॥ ५ ॥ विज्ञायावधिना कार्य, तमेवानुप्रविश्य सः । साधूनुत्थापयामास, वैरात्रिकविधेः कृतौ ॥ ६ ॥ योगानां परिपूर्णत्वे, क्षमयामास तानयम् । क्षमध्वं यन्मया सूर्य, नमिताः संयता अपि ॥ ७ ॥ अमुकष्मिन् दिने देवीभूतोऽहं भुवमागतः । भवदीयागाढयोगपरिपूर्णत्वहेतवे ॥ ८ ॥ इत्युक्त्वा क्षमयित्वा च, गते देवे सुरालयम् । तच्छरीरं परित्यज्य, सर्वे विप्रतिपेदिरे ॥ ९ ॥ इयंतं समयं यावत् वन्दितोऽयमसंयतः । न ज्ञायते ततः कोऽपि, सुरो वा श्रमणोऽथवा ॥ १० ॥ नाचार्यमपि वन्दन्तेऽव्यक्तत्वं चिन्तयन्ति च । सर्वमव्यक्तमेवैतद्वाच्यं देवोऽथवा यतिः ॥ ११ ॥
अव्यक्ताः
॥ ६८ ॥