________________
श्री प्रव्रज्या
विधाने
॥ ३॥
AON J
कुलकाभिधानं - यद्यपि वृत्तेः समाप्तौ ' इति प्रव्रज्याविधान कुलकवृत्तिः समाप्ता इति लिखितमेव स्पष्टतया वृत्तिकाराथ ' प्रव्रज्याविधानप्रकरणतिलकस्ये ' त्यप्यभिदधुः परं छन्दोवशात्तन्नातिसंभवहीनं महद्रन्थस्यावतारणार्थकं हि प्रक्रियते न चासौ तथा, किंतु अभव्यस्वरूपानुगतं यथा अभव्यकुलकं संबोधप्रकरणे जीवस्वरूपादिनिरूपकं 'जीवकुलकं ' श्रीप्रवचनसारोद्धारवृत्तौ तथेदं श्रीप्रव्रज्याविधानस्य मुख्यत्वेन निरूपकमिति यथार्थानुगतंप्रव्रज्याविधानकुलकमिति नाम, महाग्रन्थस्यावतारकत्वाभावेऽपि व्युत्पादनार्थत्वात् प्रकरणस्य प्रकरणत्वेऽपि न क्षतिः, तथा च प्रकरणार्थोपसंहार इत्युक्तावपि न क्षतिः ।
वाच्यविचारः-- यद्यप्यत्र मानुष्य दुर्लभत्वादीनि धर्मसर्वस्वान्तानि द्वाराणि गदितानि, परं मनुष्यादिदौर्लभ्ये सप्तमीनिर्देशात् अन्त्ये च धर्मशब्देन सर्वविरतेरभिप्रेतत्वात् युक्तमेव सर्वस्यापि प्रकरणापराभिधानस्य कुलकस्येव प्रव्रज्या विधानाभिधानं, यद्यपि व्याकरणकोशादिषु विधानशब्दो विध्यर्थे संशब्दितस्तथापि विधिशब्दस्य धर्मशास्त्रेषु ग्रहणादिविध रूढत्वात् विहाय विधिशब्दं विधानशब्दोऽधिकृतः साद्यन्तस्वरूपाख्याकतया, एवं च विधानशब्दस्य गुरुता परिहृता ज्ञेया,
क्रमविचारः - मनुष्यस्वादिषु दशसु द्वारेषु क्रमप्रयोजनं तथा लाभादि स्वयमभ्युद्यत एव परं प्रव्रज्याद्वारे तदुष्करताद्वारे यदेभिः प्रकरणकृद्भिरभिहितं तदपि तथाक्रममेव भगवद्भिः श्रीहरिभद्रसूरिभिरने काख्यायिकास्वान्तराख्यायिकायुतायां श्रीज्ञाताधर्माख्यायि कोपाख्यायिकाप्रतिबिम्बभृतायां श्रीसमरादित्य कथायां न्यवेदि, तथा च तग्रन्थः
समराइच्चकहा तइओ भवो एत्थ खलु सव्वकालमेव समसत्तुमित्तभावेण पाणाइवायविरई, अप्पमत्तयाए अणलियभासणं, दन्तसोहणमेत्तस्सवि अदिन्नस्स वज्जणा, मणवयणकाएहिं अवम्भचेरनिरोद्दो, वत्थपत्तोवगरणेहिंपि निम्ममत्तया, चउब्बिहराइ
प्रस्तावना
॥ ३ ॥