________________
श्री
प्रव्रज्या०
श्री प्रद्युनीवृत्तौ
॥ ६६ ॥
श्रित्य विहरन्ति हितेच्छवः || २१ || ढङ्कस्य कुम्भकारस्य, सदने प्रियदर्शना । स्थिता जमालिप्रज्ञप्तमार्याणां पुरतो जगौ ॥ २२ ॥ जमालिगदितं ढङ्कस्याग्रतोऽपि वदत्यदः । इयं विप्रतिपन्नेति ध्यात्वा ढक्को जगाद ताम् ॥ २३ ॥ एवंविधं विशेषं च कथ्यमानं न वेद्म्यहम् । अप्रबुद्धा च मे बुद्धिर्न च बोधामि बोधितम् ॥ २४ ॥ अन्यदा गुणयन्तीं तामभि चिक्षेप कुम्भकृत् । अङ्गारं तेन तस्यैकदेशे संघाट्यदात ॥ २५ ॥ तयोक्तं मम संघाटी, दग्धा स प्राह मेदृशम् । वदतस्तव महोत्सूत्रं, संघाटी यददात ॥ २६ ॥ ऋजुसूत्रनयमते, श्रीवीरवचनश्रितम् । दह्यमानं भवेद्दग्धं, वस्त्रं न तु भवन्मते ॥ २७ ॥ तथेति प्रतिश्रुत्यैषा, सत्यमित्य भिधाय च । प्रज्ञा प्रज्ञापयामास, जमालिं बहुभङ्गिभिः ॥ २८ ॥ जमालिवचनं तस्या, न जग्राह निजाग्रहात् । यदा तदा शेषसाधुसाध्वीयु सा ययौ प्रभुम् ।। २९ ।। जमालिरपि चम्पायामागत्य स्वामिनं जगौ । छद्मस्था बहवः शिष्या, अपक्रान्ताः पुरा तव ॥ ३० ॥ अहं तूत्पन्नसज्ज्ञानदर्शनोऽर्हन् जिनोऽपि च । केवल्यपक्रमेणैवापक्रान्तः केवली भवात् ॥ ३१ ॥ गौतमस्तं जगादाथ, जमाले ! माssलमालपः । केवलज्ञानिनो ज्ञानं, न खलु स्खलति क्वचित् ॥ ३२ ॥ यदि त्वं केवली तद् द्वौ, प्रश्नौ व्याकुरु मेऽग्रतः । अयं जीवश्च लोकश्च शाश्वतोऽशाश्वतोऽथवा १ ।। ३३ ।। जमालिर्गौतमेनेति, प्रोक्ता मौनमसेवत । बलं मूर्खस्य मौनत्वमिति सत्यापयन्निव ॥ ३४ ॥ अथ प्राह प्रभुः सन्ति, च्छद्मस्था बहवोऽपि मे । शिष्याः प्रश्नाविमौ तेऽतिव्याकर्तुं सकलौ क्षमाः ॥ ३५ ॥ लोको भूतभवद्भाव्यपेक्षया खलु शाश्वतः । उत्सर्पिण्यवसर्पिण्यपेक्षया तु न शाश्वतः || ३६ || जमाले ! शाश्वतो जीवो, द्रव्यरूपेण सर्वदा । त्रिभिस्तिर्यग्नृदेवत्वपर्यांयैस्तु न शाश्वतः ॥ ३७ ॥ इत्थं कथयतो देवदेवस्याश्रद्दधद्वचः । मर्तुकाम इवान्नस्यापचक्राम स दूरतः || ३८ || असद्भावोद्भावनाभिर्बहुभिः स्वं परं च सः । मिथ्यात्वाभिनिवेशैश्च व्युदग्राहयदाग्रहात्
३ प्रव्रज्या
दुरापत्वे
जमालि:
॥ ६६ ॥