________________
श्री
प्रव्रज्या०
श्रीप्रधुनीयवृत्तौ
॥ ६० ॥
| स्नुषा गर्भे सुतोऽभवत् । जातस्य तस्य चाशोकदत्त इत्याह्वयाऽजनि ॥ ४४ ॥ तस्य चैकान्ददेश्यस्य, पश्यतो जनकादिकम् । अचिअन्त्यकर्मसामर्थ्याज्जाता जातिस्मृतिः पुनः ॥ ४५ ॥ दध्यौ च तनयं तातं, स्नुषामपि च मातरम् । कथं वक्ष्यामि ? मूकत्वमेव | श्रेयस्ततो मम ।। ४६ ।। ततः स लोकवाक्येन, मूकनाम्नैव पप्रथे । द्वादशाब्देऽथ तत्राऽऽगाच्चतुर्ज्ञानी महामुनिः ॥४७॥ मेघनादाभिधः सैप, नागदत्तगृहे मुनिम् । प्रावाचं प्रेषयांचक्रे, शिक्षा दत्ता गतश्च सः ॥ ४८ ॥ तमूचे कुहनामूकं कुमारक ! गुरुर्मम । प्रेषीत्तव समीपे मां, मन्मुखेनेति वक्ति च ॥ ४९ ॥ अळं तापस! मानेन, ज्ञात्वा धर्मं समाचर । मृत्वा कोलश्च सर्पश्च जातः | पुत्रस्य पुत्रकः ॥ ५० ॥ नत्वा हित्वा च मूकत्त्वं, स प्राह क्व नु ते गुरुः १ । शक्रावतारचैत्येऽस्ति, ऋषिणोक्ते सदसौ ॥ ५१ ॥ गुरुं नत्वावदद्वार्त्ता, वेत्सि मे भगवन् ! कथम् । ज्ञानेनेति गुरुप्रोक्तेऽशोकदत्तो विसिष्मये ॥ ५२ ॥ घर्मेऽथ कथिते बुद्ध:, पूर्ववासनया तु सः । मूक इत्युच्यते लोकैर्द्वितीयं नामतस्ततः ।। ५३ ।। देवो व्यज्ञपयन्नाथमहं भोत्स्ये कथं प्रभो ! भगवानाह वैताये, स्वकुण्डलयुगेक्षणात् ॥ ५४ ॥ देवोऽथ गत्वा कौशाम्बीं, स्वबोधे मूकमार्थयत् । यतिष्येऽहं यथाशक्ति, तेनेति गदिते सति ॥ ५५ ॥ वैताढ्यं तं सुरो नीत्वाऽवदद् द्वे एव वल्लभे । सिद्धायतनकूटं च कुण्डलद्वितयं च मे ।। ५६ ।। इदं रत्नावतंसाख्यं, कुण्डलद्वितयं मम । दर्शनीयं तदा नाहं, यदा बुध्ये कथंचन ।। ५७ ॥ उक्त्वेति तत्र तन्न्यस्य, चिन्तारत्नं समर्प्य च । आख्यद्यदिहलोकस्य, कार्यस्यैकस्य कार्यदः ॥ ५८ ॥ तदेतेन त्वया कार्य, वैताढ्यगमनं सखे । प्रतिपन्नमनेनेदं, कौशाम्बी च समागतौ ॥ ५९ ॥ दिवं देवो गतश्च्युत्वा वसुमत्युदरेऽभवत् । बभूव च शरद्यस्याः, सहकारेषु दोहदः ॥ ६० ॥ अप्राप्तौ सा सगर्भाऽपि, व्यथिताऽथ जनोऽवदत् । न जीवति ततो मूको, मातृस्नेहविमोहितः ॥ ६१ ॥ दध्यौ जिनोक्तेः सत्यत्वादन्यथाऽपि भविष्यति ।
२ बोधिदौर्लभ्ये
अच
चरित्र
॥ ६० ॥