________________
श्री प्रव्रज्या०
श्रीप्रद्यु
श्रीयवृत्ती
॥ ५८ ॥
रयम् ॥ ७ ॥ गतो गुरुगिराऽवन्तीमार्यो राहुगणे स्थितः । भिक्षाकाले व्रजन्नेष, स्थापितस्तैरुवाच च ॥ ८ ॥ अहं स्वलब्धिकस्तन्मे, दर्श्यतां स्थापनाकुलम् । प्रेषितः क्षुल्ल एकस्तैः, कुलदर्शनहेतवे ॥ ९ ॥ प्रत्यनीकगृहं गच्छन्निषिद्धः क्षुलकेन सः । निवृत्ते क्षुल्लकेऽविक्षत् कुमारस्यैव मन्दिरे ॥ १० ॥ शब्देन महता धर्म्मलाभितेऽन्तः पुरीजनः । गच्छेति संज्ञया प्राह तमवाजगणन्तु सः ॥ ११ ॥ धर्म्मलाभवचः श्रुत्वा कुमारौ तु तमागतः । द्वारं पिधाय वन्दित्वा प्रोचतुर्नृत्य भिक्षुक ॥। १२ ।। स प्राह गीतवादित्रे, विना नृत्यं कुतो भवेत् ? । तावूचतुर्गीतवाद्ये, करिष्यावः प्रनृत्यत ॥ १३ ॥ भवत्वेवं मुनिप्रोक्ते, गीतवाद्ये, वितेनतुः । ताविषे विषमे क्रुद्ध, इव साधुरभाषत ॥ १४ ॥ विज्ञानेनामुना गोपपुत्रौ मां नर्त्तयिष्यतः ? । श्रुत्वेति कुपितो साधुवधायैतावधावताम् ॥ १५ ॥ नियुद्धकुशलः सोऽथ, साधुस्तौ सर्वसन्धिषु । वियोज्य प्रययौ द्वारमुद्घाट्य ध्यानमास्थितः ॥ १६ ॥ तौ निश्रेष्टौ द्रवैः सिक्तौ, बह्रयो वारा न तूचतुः । तत्पित्रोः साधुवृत्तान्ते कथिते तावुपागतौ ॥ १७ ॥ वीक्ष्य राजा ययौ सूरिमार्यराहुं ननाम च । ऊचे च भगवन् ! बालापराधः क्षम्यतामयम् ॥ १८ ॥ सूरिणोचे न जानामि, तदैवास्य च साधुभिः । मुनिनाऽऽगन्तुना स्याच्चेत्, कृतमित्यथ ते जगुः ॥ १९ ॥ तं दर्शयत राज्ञोक्ते, दर्शितो ध्यानवानसौ । राज्ञाऽथ प्रत्यभिज्ञातः, सत्रपेण ततच सः ॥ २० ॥ वितीर्य धर्मलाभं स प्राह श्रावक ! युज्यते । त्वद्राज्ये चेदमक्षीणमुल्लण्ठत्वं कुमारयोः १ ||२१|| नृपः प्राह प्रभो !नेन, प्रमादेनास्मि सत्रपः । विधायानुग्रहं तौ तु, संयोजयतु सन्धिषु ॥ २२ ॥ मुनिरूचे व्रतं चेतौ गृह्णीतां योजयामि तत् । राज्ञेोक्तं सम्मतं मेदः प्रष्टव्यौ तु कुमारकौ ॥ २३ ॥ वक्तुं न शक्तौ तौ साधुरूचेऽहं जल्पयामि तौ । गत्वा गीर्मात्रतः सज्जीकृ त्योक्तौ मुनिना स्वयम् ॥ २४ ॥ साधुबाधालतापुष्पमेतद्वां दुर्गतिः फलम् । समस्ति पश्चात्तापश्चेत्, तद् गृह्णीतं व्रतं युवाम् ||२५||
२ बोधि
दौलभ्ये अर्हत
चरित्रं
॥५८॥