SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ २बाधि प्रव्रज्या० श्रीप्रद्युम्नीयवृत्ती ॥५७॥ केनापि लक्षितः॥ १२ ।। मूरिभिः पर्वसु मापगृहे कथयितुं कथाम । यद्विनीतो विनीतोऽपि, न स द्वादशवत्सरीम् ॥ १३ ॥ अन्यदा चलिते सूरी, नृपौकासि स दाम्भिकः । उत्थायोपधिमादायावदत् पादौ वधार्यताम् ॥ १४ ॥ प्राक्रामन् स मायावी, समं दौलभ्ये राज्ञा च सूरिणा । तयोर्मनोनिवासान्तरात्मानं समवासरत् ॥ १५॥ स चोर्ध्वं यामिनीयामात , सुप्तो दम्भेन दाम्भिकः । क्रमा . उदादवापतुर्निद्रां, नृपो नृपगुरुश्च तौ ॥ १६॥ अथोत्थाय स निःशंकः, कंकलोहस्य कनिनीम् । निधायोदायिनो राज्ञः, कण्ठे यिमारक वृत्तम् कुण्ठशठोऽचलत् ॥ १७ ॥सक्तो यतिरित्युदायिमारको यामिरयम् । रयादयादवन्तीशं, शशंस च यथातथम् ॥ १८॥ विश्वस्त || धार्मिक सुप्तं, द्वादशाब्दवती भवान् । नृपं हत्वा समागच्छन्नद्रष्टव्यमुखः शठः ॥ १९॥ इत्यवन्त्यधिपेनोक्त, उदायिनृपमारकः । निर्वासितश्च संसारमनन्तं पर्यटिष्यति ॥ २०॥ युग्मम् ।। बुद्धा रुधिरसेकाच्च, सूरयोऽदृष्टशैक्षकाः । वीक्ष्य तबुच्चेष्टितं दत्तालोचनाः सिद्धसाक्षिकीम् ॥ २१ ॥ नान्यःशासनमालिन्यक्षालनोपाय इत्यमी । स्मृतपञ्चनमस्कारास्तां गले कर्तिकां ददुः ॥२२॥ युग्मम् ॥ उपदेशसहस्राणि, शृण्वन्नपि स दुष्टधीः । यथा नाबुध्यतान्येऽपि, पापाः केपि स्युरीदृशाः ॥ २३ ॥ इति दुर्लभबोधित्वमभव्यस्य प्ररूपितम् । अहहत्तस्य भव्यस्याप्यथैतत् प्रणिगद्यते ॥१॥ क्षेत्रेश्चैवाचलपुरे, जितशत्रुनेरेश्वरः । पुत्रोऽपराजितस्तस्य, युवराजपदस्थितः ॥२॥ द्वितीयः समरकेतुः, कुमारोऽवन्तिनायकः । प्रत्यन्तनृप उद्वृत्तोऽन्यदा समरकेशरी ॥३॥ तं संसाध्य समागच्छन्, युवराजोऽपराजितः । धारामनिवेशस्थमाचार्य राहुमैक्षत ॥ ४ ॥ तं वीक्ष्य जातसंवेगः, साग्रहो व्रतमग्रहीत् । अन्यदा विहरन्नेष, नगरानगरीमगात् ॥ ५॥ तत्रावन्त्याः समायाताः, पृष्टाश्च मुनयोऽमुना । उपसम्गं विना साधुविहारस्तत्र वर्तते ॥६॥ प्रोचुस्ते भद्रको तत्र, पुत्री राजपुरोधसोः । उपसर्गयतः साधून , श्रुत्वेत्याख्यद गुरो
SR No.023507
Book TitlePravrajyavidhankulakam
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages278
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy