________________
श्री
प्रव्रज्या०
श्रीप्रद्यु नीयवृत्ती
॥५६॥
लकरे हरौ । अर्थसूत्रतदुभयैः, सद्रव्यगुणपर्ययैः ॥ २९६ ॥ दत्तानुयोगानुज्ञा च गणानुज्ञा च सर्वथा । क्षिप्ताः शक्रादिभिर्वासा, दुन्दुभिध्वनिपूर्वकम् ॥ २९७ ॥ युग्मम् । सम्पूर्णायां च पौरुष्यां बलिक्षेपादनन्तरम् । देवच्छन्दं श्रिते नाथे, गणेशो देशनां व्यधात् ॥ २६८ ॥ अथ च गोमुखपुण्यजनेन चान्तिकजुषा च सदाऽप्रतिचक्रया । विहरति स्म विभुः सपरिच्छदो, भविकलोक|विबोधनहेतवे ॥ २९९ ॥
प्रथमबोधिद श्रीयुगादिजिनचरितमभिधायाभव्यत्वात् सदाऽप्यप्राप्तबोधे रुदा यिनृपमारकस्य दृष्टान्तः प्रोच्यते, तथाहि--पुरा राजगृहेशस्य, श्रेणिकस्यांगभूरभूत् । कोणिकः कोणितारातिजातिचम्पापुरीपतिः || १ || उदायिनामार्द्धम्र्म्माभ्रचण्डांशुर मण्डयत् । तत्पुत्रः पटलीपुत्रपुरं चैत्यालिमालितम् || २ || जिगीषुः स च जागर्त्ति, राजद्वादशके यथा । व्रतद्वादशकेऽप्येवं चतुर्दानाद्युपायवित् || ३ | गृह्णन् पर्वतिथिध्वेष, पौषधं दुरितौषधम् । शृणोति सूरीनाकार्य, स्वस्यावासे च देशनाम् ॥ ४ ॥ न स्फुरन्ति च तद्गुप्त संवासत्रस्तमानसाः । पाप्मानः प्राज्यराज्यस्य, प्रबला भूमिपा इव ॥ ५ ॥ तेन चाच्छिन्नराज्यस्यान्यदा कस्यापि नन्दनः । अवन्तीशं श्रितोऽवोचत्तं साकमुदायिनः ॥ ६ ॥ यदि त्वं मम साहाय्यं विधत्से तत्तव द्विषम् । हन्मि तस्यानुमत्याऽसौ ययौ पाटलिपुत्रकम् ॥ ७ ॥ उपायान् सुबहूनेष, हननार्थमुदायिनः । पश्यन्नपश्यदायातोऽथातः सूरींस्तदौकसि ॥ ८ ॥ घातायोदायिनो मानी, तमुपायं विचिन्तयन् । सूरीन् साश्रमभ्येत्य वन्दित्वा याचितं व्रतम् ।। ९ ।। मायिको मायिकीं चेष्टां, वाचिकीं च विषंचयन् । सुन्दरां सूरिभिः सोऽथ दीक्षितः शिक्षितः क्रियाम् ॥ १० ॥ छन्नमन्यपदे शृण्वन् बाष्पाविलविलोचनः । सूरिव्याख्याक्षणे कस्य, चित्तमार्द्र न स व्यधात् १ ॥ ११ ॥ इत्थं मायाविनस्तस्य परिपालयतो व्रतम् । जज्ञिरे द्वादशाब्दानि, न तु
श्रीऋषभचरित्रं
॥ ५६ ॥