________________
प्रव्रज्या० श्रीप्रद्युनीयवृत्ती
34645625ASASSAGE
| यद्देव ! देवदेवः स, नेकत्र क्वापि तिष्ठति ॥ २४२ ॥ घातिनां कर्मणामप, घातकानामविश्वसन् । यतते तद्विघाताय, स्वसंघाताय श्रीऋषभन त्वयम् ॥ २४३॥ तदमुद्रां प्रभोः पादमुद्रां प्रभुमिव प्रभो! । अभिवन्दस्व नन्दस्व, समृद्धयोज्झितखेदितः ॥२४४॥ तेनेत्युक्तः स्वयं चैष, विचारचतुरो नृपः । ननाम क्रममुद्रां ताममुद्रां भक्तिमादधत् ।।२४५॥ प्रभुक्रमप्रतिच्छन्दाक्रमं त्रातुं मणीमयम् । चक्रे चक्रं सहस्रारं, सहस्रांशुमिवापरम् ॥ २४६ ॥ विहृत्य नानादेशेषु, मौनवान् भगवानपि । मोहादिभिरयोध्योऽयमयोध्यायां समा-12 गमत् ॥ २४७ ॥ तत्र च पुरिमतालोद्यानेऽशोकतरोरधः । कृताष्टमतपाः स्वामी, प्रतिमायामयस्थितः ॥ २४८ ॥ तत्रास्य फाल्गु-18 नश्यामैकादश्यामुत्तरर्वांगे । विधौ केवलमुत्पेदे, घातिकर्मक्षये विभोः ॥ २४९ ॥ तन पर्वणि सर्वेऽपि, सुपर्वेशाः समाययुः । जज्ञे समवसरणं च, वप्रत्रितयवन्धुरम् ।। २५० ।। एकयोजनमाना भूमष्टा वायुकुमारकैः। सिक्ता मेषकुमारैः सा, सलिलैश्च । सुगन्धिभिः ॥ २५१ ।। व्यन्तरः कुट्टिमं चक्रे, स्वर्णरत्नमणीमयम् । तैः पुष्पप्रकरैः सोऽधोमुखयन्तो विनिर्ममे ॥ २५२॥ कल्प-14 ज्योतिर्भवनत्रिदशा मणिरत्नकनककपिशीर्षः। रत्नस्वर्णश्वेतैः ससृजुर्वप्रत्रयीं मध्यात् ।। २५३ ॥ अन्तत्रिकोशचैत्यद्रोरधः सिंहासनानि च । देवच्छन्दो द्वितीयस्य, वनस्याभ्यन्तरे तथा ॥ २५४ ।। बहिश्चक्रं च पद्मस्थं. विचक्रय॑न्तरामराः । द्वाःस्थाः स्वर्गिवनज्योतिर्भवनाः प्राक्क्रमात् स्थिताः ॥ २५५ ॥ यतिस्वःस्त्रीयतिन्योऽग्नौ, त्रिधा देवास्त्वरक्षसः। तमार्यो मरुतोऽऽस्थुरीशाने स्वर्गिनः स्त्रियः ॥ २५६ ॥ वसुपबेषु नवसु, न्यसन्नंघी ततः प्रभुः। चतुर्दैवनिकायानां, कोटीभिः परितो वृतः ॥ २५७॥ प्रविश्य पूर्वद्वारेण, चैत्यवृक्षप्रदक्षिणाम् । कृत्वा च प्राङ्मुखः सिंहासने स समुपाविशत् ॥ २५८ ॥ व्यन्तराः प्रतिरूपाणि, दिक्|त्रये त्रीणि च व्यधुः। प्रातिहार्याणि सर्वाणि, प्रकाशानि च जज्ञिरे ॥ २५९ ॥ सौधर्मेन्द्रः समेत्याथ, स्तुत्वा शक्रस्तवेन च ।।
FASHISHASSASSISTASHASAILI