SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ श्रीऋषभ चरित्रं प्रव्रज्या० श्रीप्रद्युम्नीयवृत्ती CEARCANCE ॥५२॥ चाद्यं पात्रदानिषु ।। २२४ ॥ पितृतप्पर्णकृत् सत्यमपत्यमयमेव हि । पूर्वजोऽपि येनाद्यभिक्षुरिक्षुरसैरसौ ॥ २२५ ।। गृहिण्येव भवेद्भर्तुर्भाविनी भोजनक्षणे । तत् प्राग्भवप्रिया मन्ये, श्रेयांसस्तमभोजयत् ॥ २२६ ।। तदा पुष्पोत्करश्चलोत्क्षेपो दुन्दुभिनिः स्वनः । गन्धाम्बु च वसुवृष्टिः, पञ्च दिव्यानि जज्ञिरे ॥ २२७ ।। वर्षान्त पारणं यस्यां, तिथौ वैशाखमास्यभूत् । पक्षियतृतीयेति, साऽद्यापि प्रथिता भुवि ॥२२८॥ कथं ज्ञातं जनैः पृष्टः, श्रेयांसः प्राग्भवान्नव । स्वस्याख्यत् स्वामिना साई, तेभ्यो दानविधिं च सः ॥ २२९ ॥ मेरुः श्यामः कुशःस्वामी, क्षालनं चास्य पारणम् । प्रभुः शिष्ययुतो भावी, सहस्रांशुरिवांशुभिः ॥२३०॥ स्वामी पारणकाद्वीरोऽरीन् जेता च परीषहान् । स्वमार्थमित्थं श्रेयांसः, सर्वेषामग्रतोऽगृणात् ।। २३१ ॥ युग्मम् ।। विधाय पारणं | याते, विभौ तत्र व्यधादयम् । आदिकृन्मण्डलाभिख्यं, स्तूपं भूपतिनन्दनः ॥२३२॥ विभुस्तु विहरन् देशे, बहलीनामकेवजत् । | तत्र तक्षशिलापुर्या, बहिः प्रतिमया स्थितः ॥ २३३ ॥ निशि ज्ञातागमस्तक्षशिलां तक्षशिलापतिः । तेने बाहुबलिर्मश्चातिमञ्चचयरोचिताम् ॥२३४॥ प्रभुः प्रातः पुरीमेत्यातक्षच्छीलां विधास्यति । इति बुद्धया मनःशुद्धया, तस्थौ बाहुबलिनिशि ॥२३५॥ निःससार च सर्वा , प्रभातेऽभिमुखः प्रभोः । प्रभुस्तु विहृतोऽन्यत्र, न लिप्यन्ते हि तादृशः ॥ २३६ ॥ अथ बाहुबलिः खेदमेदस्विहृदयोऽधिकम् । अश्रुपूर्णक्षणो वाचमित्युवाच सगद्गदम् ।। २३७ ।। हा हा मे मन्दभाग्यस्य, पादशुद्धिं प्रकुर्वतः । विमूढमनसो बाढमगच्छद् ग्रहणक्षणः ।। २३८॥ हा हा वैवाहिकातिथ्यव्याकुलस्य ममाधिक। न पाणिपीडनकृतिः, स्मृतिगोचरतामगात् ॥ २३९ ॥ यदहं पितरं तीर्थकर स्वपुरमागतम् । हदृशोभादिषु व्यग्रो, नानमं ध्यानमन्दिरम् ॥ २४०॥ बहली बहुलीभृतं, खेदं वितनुतेऽधुना । अदाद्दक्षस्य मे तक्षशिला मनसि लाघवम् ॥ २४१॥ स शोचन्नित्यमात्येन, प्रत्यबोधित सादरम् ।। SURA RECE
SR No.023507
Book TitlePravrajyavidhankulakam
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages278
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy