________________
|२ बोधि
दौलभ्ये
श्रीऋषभचरित्रं
श्री
पचन्दनं रत्नकम्बलः । लक्षपाकं चिकित्सार्थमस्य तैलं गृहेऽस्ति मे ॥६४॥ ते श्रुत्वेति द्वयं केतुं, महेभ्यविपणौ ययुः। तत्पृष्टो प्रव्रज्या० श्रीप्रद्यु
भूपभूः प्राह, कार्य मुनिचिकित्सितम् ॥६५॥ महेभ्योऽचिन्तयल्लाभो, यः पात्राभयदानयोः। ततोऽनन्तगुणः साधुनीरोगत्वप्रदानतः म्नीयवृत्ती
।। ६६॥ ध्यात्वेति स ददौ तेषां, गोशीर्ष रत्नकम्बलम् । निःसंगश्च तयोमल्यं, परं पदमुपाददे ॥६७॥ तेऽप्यागत्य समं जीवा
नन्देन मुनिमभ्यगुः । अनुज्ञाप्य च तं तस्यारेभिरे ते प्रतिक्रियाम् ॥ ६८ ॥ जीवानन्दः स्वयं लक्षपाकेनाम्यज्य तं मुनिम् । ॥४३॥
यत्नादाच्छादयद्रत्नकम्बलेन समंततः ॥ ६९ ॥ तैलतापेन निःसृत्य, निलीनांस्तत्र शीतले । कृमीन कृती प्रचिक्षेप, कृपालुर्गोशवे शनैः ॥ ७० ॥ तैलतापाकुलं साधुशरीरं चन्दनद्रवैः । विलिप्य शीतलं चक्रे, करैरिव सुधाकरः॥१॥ त्रिभैषजत्रयेणैवं, त्वग्मांसास्थिगतान कृमीन् । आकृष्य मुनिमुल्लाघ, विधायाक्षमयनमी ॥ ७२ ॥ वितीर्णधर्मलाभेऽस्मिन्नन्यत्र विहृते मुनौ । मिलितेन | धनेनैते, चैत्यं चक्रुः समुन्नतम् ॥ ७३ ॥ षडप्यंते परिव्रज्य, तपस्तप्त्वा सुदुस्तपम् । जज्ञिरे पूरयित्वाऽऽयुः, सुरा युगच्युतश्रियः
॥ ७४॥ प्रारद्वीपप्राग्विदेहेषु, पंच तेष्वच्युताच्च्युताः। विजये पुष्कलावत्यां, पुण्डरीकिण्यधीशितुः ॥ ७५ ॥ धारिण्यां वज्रसेमनस्य, तीर्थकृद्भपतेः सुताः। जाताः केशवजीवस्तु, सुयशा राजपुत्रकः ॥ ७६ ॥ युग्मम् ।। तेभ्यश्चर्तुदशख्यातस्वमसूचित
चक्रितः । जीवानन्दस्य जीवोऽभूद्वज्रनाभाभिधोऽगजः ॥ ७७॥ जीवाः पुनर्नृपामात्यश्रेष्ठिसार्थेशजन्मनाम् । बाहुः सुबाहुः पीठश्च, महापीठोऽभवन् क्रमात् ।। ७८ ।। सुयशा वज्रनाभेन, संश्रितः सारथिः कृतः । प्राग्भवस्नेहतः सोऽपि, सहोदर इवाजनि | ॥ ७९ ॥ वज्रसेनोज्यदा राज्ये, नियोज्य ज्येष्ठनन्दनम् । बोधितस्त्रिदशैर्दानं, दत्त्वाऽब्दं व्रतमाददे ।। ८० ॥ राज्यं पालयतो वज्रनाभस्य सहजैः सह । चक्रमायुधशालायामभूद्वप्तुश्च केवलम् ॥ ८१॥ स्वामिनो महिमानं स, कृत्वा दिग्विजयोद्यतः। विजयं
SAGAR
बहनऊवार
॥४३॥