SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ श्री प्रव्रज्या० श्रप्रिधु: नीयवृत्ती 11 32 11 अथ युगदृष्टान्तः - देवः कोऽपि युगं प्राच्यां प्रतीच्यां समिलां पुनः । स्थापयेदथ सा भृष्टा, जले तत्रातलस्पृशि ॥ १ ॥ स्थारे वा भटारेव ( अस्थिरे च तटादेव ) परितोऽपि चलाचला । युगे चलाचले योगं लभते न कथंचन ॥ २ ॥ युग्मम् ॥ प्रचण्डवातवीचीभिः, प्रेरिता सा कथंचन । युगे प्रविशेन् न तु दैवान्, नृत्वाद्भष्टाः पुनर्नृताम् ॥ ३ ॥ अथ परमाणुदृष्टान्तः तथाहि त्रिदशः कश्चिदारसेन दृषन्मयम् । स्तम्भं महान्तमुच्चूर्य, दृग्निक्षेपनिभं व्यधात् ॥ १ ॥ तच्चूर्ण स समादाय, तूर्णं गत्वा सुराचले । चूलिकायां चटित्वा च नलिकां स्वकरेऽकरोत् ॥ २ ॥ तच्चूर्णं परितो लोकं, [द्राक्] ककुप्सु चतसृष्वपि । फूत्कृत्य पातितं वाति, महावाते सुपर्वणा || ३ || सुपर्वपर्वत भ्रष्टैस्तैरेव परमाणुभिः । स सुपर्वापि नो कर्त्तु, समर्थस्तं पुनर्यथा ॥ ४ ॥ दुष्कर्म्मवशतो भ्रष्टस्तथा मानुषजन्मतः । निस्तुषं मानुषं जन्म, जन्मी न लभते पुनः ॥ ५ ॥ इति मनुष्यभवस्य दुरापता, बहुनिदर्शनदर्शनतः कृता । समधिगम्य च सम्यगिदं बुधाः !, सफलताकलितं कलयन्तु तम् ॥ ६ ॥ इत्यस्यां विवृतौ श्रीमत्प्रद्युम्नस्य कवेः कृतौ । नृत्वदुर्लभताद्वारं, प्रथमं पर्यपूर्यत || ७ || ग्रन्थानं ६७८ ॥ इति मनुजत्वदुर्लभतानाम प्रथमं द्वारं समाप्तम् ॥ अथ बोधिदुष्प्रापता नाम द्वितीयं द्वारं गाथाप्रथमार्द्धेन तृतीयं प्रव्रज्यादुरापत्वद्वारं चोत्तरार्द्धेन सूत्रकर्ता प्रथयतितत्थवि बोही जिणदेसियंमि धम्मंमि निक्कलंकम्मि । पव्वज्जापरिणामो सुकयप्पुन्नस्स जइ होइ ॥ २ ॥ युगपरमाणुदृष्टान्तौ ॥ ३८ ॥
SR No.023507
Book TitlePravrajyavidhankulakam
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages278
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy