________________
श्री प्रव्रज्या० श्रीप्रद्यु नीयवृत्ती
॥ ३७ ॥
शोऽपि ददाति न । तन्ममागतिकस्येव, भ्रमतः स्थानदो भव || २४२ ॥ इत्युक्त्वा भूतलन्यस्तमस्तकः सोऽभवत् पुनः । पृष्ठे हस्तप्रदानेन ताभ्यां चक्रेऽथ निर्भयः ॥ २४३ ॥ पंचभिः कुलकम् || अथ संस्नप्य सानन्दं, भोजयित्वा च सादरम् । स देवदत्तया देवदूष्याणि परिधापितः ॥ २४४ ॥ नृपेण मुक्तशुल्कश्च गतोऽवन्त्यां स तद्गिरा । विचारधवलेनापि, सत्कृतः स्वगृहे स्थितः ॥ २४५ ॥ अथ निर्घृणशर्म्मापि श्रुत्वा तं नृपमागतः । दत्तः स एव च ग्रामो, राज्ञाऽस्यादृष्टसेवया ॥ २४६ ॥ अथ काटकोऽश्रौषीन्, मूलदेवं जनश्रुतेः । राजस्वमेन राजानं जातं चारुविचारतः ॥ २४७ ॥ स दध्यौ तत्र गच्छामि, लभ्यते यत्र गोरसः । तं पीत्वा स्वपिमि स्वमं येन पश्याम्यहं पुनः ॥ २४८ ॥ कदापि प्रेक्षते स्वनं, सोऽपि दैवनियोगतः । न तु जन्तुर्मनुष्यत्वभ्रष्टो मानुष्यकं पुनः ॥ २४९ ॥ इति स्वप्नदृष्टान्तः ॥ अथ चक्रदृष्टान्तः स च " राहावेहविणिम्मिय " ति गाथायां उपरि भणिष्यते ।
अथ चर्मदृष्टान्तः, हद एकोऽस्ति विस्तीर्णो, योजनानां सहस्रकम् । चर्म्मणेव समन्तात्तु, शैवलेन परावृतः ॥ १ ॥ कूर्म ग्रीवाप्रवेशानुमानेन च्छिद्रमत्र च । प्रसारयति स ग्रीवां, हायनानां शते शते ॥२॥ एकदा कौमुदीरात्रौ तेन ग्रीवा प्रसारिता । छिद्रेण निःसृता तेन, ज्योतिश्चक्रं स दृष्टवान् ||३|| स वीक्ष्य कौमुदी वल्लेस्तत्पुष्पफलसन्निभम् । दध्यौ च स्वकुटुम्बस्य, निखिलं दर्शयाम्यदः ॥ ४ ॥ ध्यात्वेति स्वकुटुम्बेन, स सार्द्धं यावदाययौ । तावचद् विवरं नैव, विलुलोके कथंचन ॥ ५ ॥ कदापि सोऽपि तच्छिद्रं, पुनरेव निरीक्षते । न तु मानुष्यतो भ्रष्टो, मानुष्यं लभते पुनः ॥ ६ ॥
१ नृत्व
दौलभ्ये
स्वप्नचर्मदृष्टान्तौ
॥ ३७ ॥