________________
श्री
प्रव्रज्या०
श्रीप्रद्युः नीयवृत्ती
॥ ३४ ॥
दैवप्रभावभाक् ॥ १८७॥ दुष्टानां शासकस्यास्य शासने यो न वर्त्तते । तस्याहं न क्षमामीति, प्रोच्य देवी तिरोदधे ॥ १८८ ॥ युग्मम् ॥ ततश्च मन्त्रिसामन्त पुरोधः प्रमुखो जनः । सर्वोऽप्याज्ञाविधेषोऽस्याभिषेकं प्रवणो व्यधात् ॥ १८९ ॥ दानेन गृहिरत्नेन, सद्योऽप्युप्तं फलेग्रहि । राज्यं सेभसहस्रं स, भुनक्ति व्यक्तशक्तियुग् ॥ १९० ॥ सत्यां पाणिगृहीत्यां स राज्ये प्राज्ये च सत्यपि । नाभून्मोचयितुं शक्तो, देवदत्ताघृतं मनः ॥ १९९ ॥ विचारधवलाभिख्येनावन्तिपतिना ततः । व्यधादुज्जागरं प्रेमसागरं प्राभृतेन्दुना ||| १९२ ॥ इतश्च तादृशीं दृष्ट्वा, मूलदेवविडम्बनाम् । देवदत्ताऽचलेऽतीवोत्तीर्णचित्ता जगाद ताम् || १९३ ॥ वेश्याऽहं न तु पत्नी ते, तथापि हि गृहे मम । यदेवं कुरुषे तन्न, धार्यः खेदो मदर्थिना ॥ १९४ ॥ उक्त्वेति गत्वा नत्वा च विज्ञा व्यज्ञपयन्नृपम् । वरेण तेन मे नाथ !, प्रसादः क्रियतामिति । १९५ || याचस्वेति नृपेणोक्ते, देवदत्ताऽवदत्ततः । मूलदेवं विना नान्य, आयोज्यः पुरुषो मम ।। १९६ ।। अचलो गृहमागच्छन्निषेध्यश्च नृपोऽवदत् । भवत्वेवं पुनः कोऽयं, वृत्तान्तः ? कथयस्व मे ॥ १९७ ।। ऋजुत्वजनकस्याथ, मूलदेवस्य वैरतः । अचलद्वेषिणी सर्व, वृत्तान्तं माधवी जगौ ॥ १९८ ॥ क्रुद्धो नृपः समाहाय्यावदद्रत्ने इमे हि मे । यत् खलीकुरुषे तत् त्वं नृपः १ किं वस्तुनिष्कृप ! ॥ १९९ ॥ अधुना शरणं कस्ते, मयि प्राणप्रणाशके ? । वेश्याऽऽह किं शुनाऽनेन, हतेनैनं विमुञ्चत || २०० || नृपः प्राह गिराऽमुष्या, मुक्तोऽस्यानीय तं त्वया । प्रवेष्टव्यमिहेत्येष, प्रणम्य निरगात् पुरः || २०१ || अप्राप्तमूलदेवोऽयं, स्वया न्यूनतया तया । गतः पारसकूलं स, पोतं भृत्वा क्रयाणकैः ॥ २०२ ॥ वृत्तान्तं मूलदेवस्तं, चरैर्मत्वा सुसञ्चरैः । प्रेयस्यै प्रेषयल्लेख, प्राभृतं च नृपं प्रति ।। २०३ || स्वस्ति बेनातटान्मूलदेवः सर्वसहाऽधिपः । प्राप्तविक्रमराजाख्यो, देवतायाः प्रसादतः || २०४ || उज्जयिन्यां देवदत्तां, प्राणेभ्योऽपि प्रियां प्रियाम् । स्तनोपपीडमाश्लिष्य, समादिशति
मनुष्यदुर्लभतायां
स्वम
दृष्टान्तः
॥ ३४ ॥