________________
श्री
प्रव्रज्या० श्री प्रद्युश्रीयवृत्तौ
॥ ३३ ॥
।। १६९ ॥ तेनैष बहुमानेनाभाष्य पृष्टः प्रयोजनम् । जगाद योजितकरं, स्वप्नव्यतिकरं च तम् ॥ १७० ॥ उपाध्यायः प्रमुदितः, प्राह स्वनफलं तव । आख्यास्ये सुमुहूर्त्तेऽहमद्यास्माकं भवातिथिः ॥ १७१ ॥ इत्युक्त्वा स्नपयित्वा च, प्रवाणी निष्प्रवाणधीः । परिघाप्य च दैवज्ञस्तं नृपवदभोजयत् ॥ १७२ ॥ उक्तः श्लोकोत्तरं नैमित्तिकेन च स सादरम् । पुत्रीं प्राप्तवरामेदां, कुलोद्वह ! ममोह || १७३ || मूलदेवस्ततोऽवादीत्, तात ! जामातरं कथम् । अज्ञातकुलशीलं मां, करोषि नीतिवर्जितम् ॥ १७४ ॥ नैमि - तिकोऽवदद्वत्स !, ज्ञातं तव कुलादिकम् । आचारेण यदाचारः, कुलमारव्याति देहिनाम् ।। १७५ ।। किञ्च कौस्तुभते जो वच्चम्पके सुरभित्ववत् । सुधामाधुर्यवच्च स्यात्, सतां शीलमकृत्रिमम् ॥ १७६ ॥ निष्कलंक कुलं कर्त्तु, निष्कलंका गुणाः क्षमाः । तानृते त्वनृतेनैव, कुलेन विमलेन किम् ? ।। १७७ ॥ तन्मदीयमिदं सद्यः प्रतिपद्यस्व भाषितम् । महांस्त्वं महतां व्यर्था, प्रार्थना हि न जायते ।। १७८ ॥ इत्युक्त्वा मूलदेवेन स सुतां पर्यणाययत् । आख्यच्च सप्ताहोरात्रमध्ये भृपो भविष्यसि ॥ १७९ ॥ | देवताऽऽदेशतः स्वमस्वमपाठकवाक्यतः । निश्चिक्ये स नृपत्वं स्वं स्वभित्र त्रिः परीक्षितम् ॥ १८० ॥ तुष्टस्तत्र सुखं तिष्ठन् स स्वमात् सप्तमेऽहनि । पुराद्वहिर्गतः सुप्तचम्पकस्य तरोस्तले ॥ १८१ ॥ इतश्चोपरते तत्रापुत्रे धात्रीधये रुजा । अमुञ्चन् पश्च दिव्यानि पार्थिवाधिकृताः पुरि ।। १८२ ॥ तानि भ्रमं भ्रमं पुर्या, बहिर्ययुः परिभ्रमम् । सुप्तं चम्पकमूले च, मूलदेवं व्यलोकयन् ॥ १८३ ॥ तं विलोक्यापरावृत्तच्छायं दैवतभावतः । दिव्यानि तत्र पञ्चापि कौतुकादिव तस्थिरे ॥ १८४ ॥ अप्यूर्जितं गजो गर्जन्, हयो हेपारवं व्यधात्। भृंगारेणाभिषिक्तश्च चामराभ्यां च वीजितः ।। १८५ ।। छत्रेण विहितच्छाये, जाते जयजयारवे । गजेन स्कन्धमारोप्य, स्वयं पुर्यां प्रवेशितः || १८६ ॥ युग्मम् ॥ ऊचे नभःस्थया देव्या चैवं सर्व कलानिधिः । नाम्ना विक्रेमराजोऽयं, राजा
मनुष्यदुर्लभतायां
स्वन
दृष्टान्तः
॥ ३३ ॥