________________
श्री
प्रव्रज्या०
श्रीप्रधु
नीयवृत्तौ
॥ ३२ ॥
साऽनन्तफलं लोकद्वये भवेत् ॥ १५२ ॥ मासोपवास्ययं मेऽद्योपवासत्रयपारणे । पारणायापतत् भाविकल्याणमणिभिद् ध्रुवम् ॥ १५३ ॥ माषान् ददे तदेतस्मै, ग्रामो ह्ययमदायकः । कतिष्वपि गृहेष्वेष, महात्मा हि यतो व्रजेत् ।। १५४ ॥ अहं पुनर्भमियेऽस्मिन् ग्रामोऽस्त्यन्योऽप्यदूरतः । तत्र लप्स्येऽर्पयाम्यस्मिस्तत् कुल्माषानकल्मषे ॥ १५५ ॥ ध्यात्वेति दर्शितास्तेन, ते नतेन मुनिं प्रति । साधुद्रव्यादिसंशुद्धिं ध्यात्वा दधे च पात्रकम् ॥ १५६ ॥ प्रवर्द्धमानभावस्तानदादित्यपठत्तथा । धन्यानां पुरुषाणां स्युः, कुल्माषाः साधुपारणे ॥ १५७ ॥ तदा नमः स्थिता साधुभक्त्या देवीत्युवाच तम् । मूलदेव ! त्वया साधु, कारितं साधुपारणम् ॥ १५८ ॥ प्रार्थयस्व ततः श्लोकार्थेन यत्तव रोचते । सोऽयाचद्देवदत्तां च, राज्यं चेमसहस्रभृत् ॥ १५९ ॥ देव्यूचे वत्स ! निश्चितस्तिष्ठावश्यं भविष्यति । तवेदमचिरादेव, मुनिपादप्रसादतः ॥ १६० ॥ मूलदेवस्तथेत्युक्त्वा, नत्वा च मुनिपुंगवम् । निवृत्तोऽथ मुनिर्गत्वोद्याने पारणकं व्यधात् ॥ १६१ ॥ मुनौ सर्वस्वदानेन तदाऽनेन समोऽस्तु कः १ । मुनिनाऽपि च यो भिक्षामादायादात् महीशताम् ॥ १६२ ॥ भ्रमन्नन्यस्तु लब्ध्वाऽन्यभिक्षां विक्षोभवर्जितः । भुक्त्वा बेनातटं प्राप्तः, सुप्तो देश्यकुटौ स्फुटम् ।। १६३ ।। चरमे यामिनीयामे, स्वप्नेऽपश्यन्मुखे विशत् । यामिनीकामिनीस्वर्णकुण्डलं चन्द्रमण्डलम् ॥ १६४ ॥ कोऽपि कापटिकः स्वमे, तद्वीक्ष्यान्योऽन्यमाख्यत । ते व्याख्यन् घृतखण्डाभ्यां, मण्डकं लप्स्यसेऽद्य यत् ।। १६५ ॥ परमार्थ न जानन्ति, स्वप्नस्यैतेऽल्पमेधसः । ध्यात्वेति मूलदेवेन, न स्वस्वनो निवेदितः || १६६ || द्रमकस्तु स भिक्षायां समच्छादनपर्वणि । लब्धवान् घृतखण्डाभ्यां मण्डितं प्रौढमण्डकम् ॥ १६७॥ मूलदेवः पुनर्गत्वाऽऽरामं चारामनायकम् । कुसुमोच्चयसाहाय्यादार्थधीः पर्यतोयषत् ।। १६८ ।। तस्माद्दास्यति (दादाय ) पुष्पाणि, फलानि च शुचित्वभाक् । स्वमाध्येतुः सुधीर्घाम, जगाम च ननाम च
मृनुष्यदुर्लभतायां स्वझदृष्टान्तः
॥ ३२ ॥