________________
श्री
प्रव्रज्या०
श्रीमद्यु नीयवृत्ती
॥ ३१ ॥
आकृष्य भस्त्रिकामध्यात्, सक्कुमारक्तमानसः । कांस्यपात्रे जलेनाद्रकृत्यारेभे च खादितुम् ॥ १३५ ॥ अचिन्ति मूलदेवेन, ब्राह्मणा जातिरीदृशी । प्रायः क्षुधाप्रधानैव, पश्चाद्दास्यति मे ततः ।। १३६ ।। भट्टस्तु भुक्त्वा बद्ध्वा च स्थगिकामभवत् पथि । परोऽपराधे दातेति, ध्यायन्ननुजगाम तम् ॥ १३७॥ तदाप्यदत्ते कल्येऽसौ, दास्यतीत्याशया व्रजन् । शिश्याते ते निशीथे न्यग्रोधस्यादरतोऽध्वनः || १३८ ॥ तथैव प्रस्थितौ प्रातः, पुनर्मध्यंदिने स्थितौ । तथैव बुभुजे टक्को, मूलदेवाय न स्वदात् ॥ १३९ ॥ द्वितीयेऽथ दिने दध्यौ, मूलदेवोऽथ वाडवः । सत्कून् दास्यति निस्तीर्णप्राया यद्वर्त्ततेऽटवी ॥ १४० ॥ तस्मिन्नपि दिने स्वेन, भुक्त्वा भनामुखं द्विजः । मूलदेवमुखेनामा बबन्धे दृढबन्धनैः ॥ १४१ ॥ अटव्यां लंघनं चैकं, तस्य त्रीण्यपराण्यपि । न तथा दुदुवुश्चत्तं यथा द्विड् मानलम्पटम् ॥ १४२ ॥ त्रुटितायामथाटव्यामद्रवद् विपथे द्विजः । मम ग्रामस्य मार्गोऽयमयं बेनातटस्य च ॥ १४३ ॥ मूलदेवोऽवदद्भद्रायातोऽस्मि त्वत्प्रभावतः । मम त्वं सुहृदेवाथ, ममाख्यामपि विद्धि भोः ! ॥ १४४ ॥ तन्मयापि कदाचिच्चत् कार्यं किमपि सिध्यति । बेनातटं तदाऽऽगच्छे, किञ्च ते नाम ? सोऽवदत् ॥ १४५ ॥ पित्रा सद्धड इत्याख्या, दत्ताऽन्येन जनेन तु । मम निर्घृणशर्मेति, मूलदेवः स्मितस्ततः ॥ १४६ ॥ गतेऽस्मिन् मूलदेवोऽथ, ग्रामे वसति कुत्रचित् । भिक्षां प्रविष्टः कुल्माषान् भ्रान्त्वा भ्रान्त्वाऽऽप नापरम् ॥ १४७ ॥ गच्छँश्चाभिसरः शुष्कदेहं गेहं तपः श्रियाम् । अपश्यमुनिमायान्तमेकं मासिकपारणे ॥ १४८ ॥ अचिन्तयच्च धन्योऽस्मि, यदस्मिन् समये मया । मुनिः कल्पतरुर्दृष्टोऽसमुद्भूततरौ मरौ ॥ १४९ ॥ अत्र चैष दरिद्रस्यौकस्यष्टापदवृष्टिवत् । जनंगमगृहे मत्तमतङ्गज इवागतः ॥ १५० ॥ किं चैष दशभिर्धम्मैः पात्रं रत्नत्रयाऽधिपः । सर्वसंगपरित्यागी, सुपात्रं हि महामुनिः ॥ १५१ ॥ विन्यस्तमीदृशे क्षेत्रे, वस्तुसस्यं कुटुम्बिना । सिक्तं भावाम्भ
मनुष्यदुर्लभतायां
स्वम
दृष्टान्तः
॥ ३१ ॥