________________
श्री
प्रव्रज्या०
श्रीप्रधुनीयवृत्ती
॥ २९ ॥
कृत्याखिलान्यपि । कर्पूरेणाधिवास्याथ, मनागू भिवा च कण्टकैः ॥ १०० ॥ शरावद्वयमानीय, कुलालनिलयादयम् एकं भृत्वा तदाऽन्येनाच्छाद्य तां प्राहिणोत्ततः ॥ १०१ ॥ विशेषकम् || अचलप्रहितानिक्षून्, भिक्षूनिव गृहाङ्गणे । लुठतः स्पृशती पद्भ्यां वेश्मनि प्रविवेश सा ॥ १०२ ॥ विम्बादिवाधिवासस्थादुत्सार्याच्छादनं ततः । शरावसम्पुटं तस्या, निकटं प्रकटं व्यधात् ॥ १०३ ॥ वर्द्धमानमुदाऽऽदाय, वर्द्धमानद्वयं च तत् । देवदत्ताऽवदत्तामाहूयाम्यां दर्शयत्यदः ॥ १०४ ॥ नराणामन्तरं पश्य, ततोऽहं गुणरागिणी । अक्कयाऽचिन्त्यथात्यन्तप्रीतेयं न त्यजत्यमुम् ॥ १०५ ॥ करोम्युपायं तं येन, कामुको गामुको भवेत् । स्वयमेव विदेशाय, ततः स्याद् रुचिरं चिरम् ॥ १०६ ॥ चित्ते चिरं विचिन्त्येति, प्रोचे प्रज्ञाबलाऽचलम् । गुप्तस्त्वमेधि मेधाविन् !, कृत्वाऽलीकप्रवासिताम् ॥ १०७ ॥ प्रविष्टो मूलदेवोऽथ त्वयाऽभ्येत्य भटैः सह । विमाननीयो देशेऽपि, वसत्यसौ ॥ १०८ ॥ तथास्थेऽस्मिन् मूलदेवमाहूतं देवदत्तया । कुट्टिनी कपटे पट्टी, सार्थेशस्य न्यवेदयत् ॥ १०९ ॥ तस्मिन्नकस्मादायाते, स्वभटैः साकमुत्कटैः । साऽतुल्यं दधती शल्यं, पल्यंकाधः प्रियं न्यधात् ॥ ११० ॥ तं विज्ञाय च पल्यंके, निःश केन हृदाऽचलः । उपाविशदयं दक्षः, प्रोचे च गणिकामिति ॥ १११ ॥ कुरुत स्नानसामग्री, वेश्या प्राहैवमस्त्विति । उत्तिष्ठताभ्यङ्गकृते, वराशि परिधत्त च ॥ ११२ ॥ अवोचदचलः स्वमे, दृष्टोऽद्य यदिमैरहम् । वस्त्रैः खद्वास्थितोऽभ्यक्तः, स्नातश्चैतत्ततः कुरु ।। ११३ ।। सर्वे विनश्यते वेश्याप्रोक्तं प्रोचेऽचलः पुनः । दास्ये तूलीदुकूलाद्यं सुचिरं रुचिरं परम् ॥ ११४ ॥ कुट्टिन्या त्वेवमित्युक्ते, तया तत्र स्थितोऽपि सः | अभ्यंग्योद्वर्त्तितः खल्या, स्नपितश्च जलैरपि ।। ११५ ।। पतिता मूलदेवस्योपरि स्नानाम्भसा चसाः । अदत्त देवदत्तायाः, स्नेहस्येव जलाञ्जलिम् ॥ ११६ ॥ अचलः सावयामास, स्नाननीरेण तत्प्रियाम् । प्रेम श्रीर्देव
मनुष्यदुर्लभतायां
स्वप्नदृष्टान्तः
॥ २९ ॥