SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ श्री प्रव्रज्या० श्री प्रद्यु नीयवृत्ती ॥ २७ ॥ ध्रुवम् || ६३ || अवामनं गुणैरेनं मन्ये कपटवामनम् । ध्यात्वेति देवदत्ताऽस्य देवस्येवापतत् पदोः ||६४ || अवोचं च महाभाग !, गुणैररिमैः । ज्ञातोऽस्त्युत्तममर्त्यस्त्वं प्रतिपन्नै च वत्सलः ।। ६५ ।। दाक्षिण्यावारपारश्च तदात्मानं प्रदर्शय । रूपे तवाहमुकाऽस्मि, योगिनीव परात्मनि ||६६ || तन्निर्बन्धान्निजास्यस्थामाकृष्य गुटिकामथ । मूलरूपधरो मूलदेवो देवोपमोऽभवत् ॥६७॥ साक्षाद् वीक्ष्य कलावन्तं तं भास्वन्तं च तेजसा । दर्शवद्दर्शनीयं सा, प्राज्ञमान्यममन्यत ॥ ६८ ॥ तं यथाकामरूपं च कामरूपं च वीक्षितुम् । सहस्राक्षत्वमैच्छच्चापतच्च पदयोः पुनः ॥६९॥ महाप्रसाद इत्युक्त्वा, स्वयमभ्यज्य तं ततः । समं स्नात्वा च भुक्त्वा च, दुकूले पर्यधापयत् ॥ ७० ॥ अजल्पच्च विनैकं त्वां नापरेण नरेण मे । केनाप्यरञ्जि दूरज्यं, मानसं मानसंभृतम् ॥ ७१ ॥ तत् सत्यं दृश्यते केनैकेन साकं न संकथा ? । विरलं मानुषं चित्तस्यामंदानन्दकृत् पुनः ॥ ७२ ॥ त्वयोपरोधशीलेन, तन् मदीयानुरोधतः । रम्ये हर्म्ये समागम्य, विश्रम्यमिह सर्वदा ॥ ७३ ॥ मूलदेवोऽवदद् गुण्ये, गुणज्ञे गुणरागिणी ! | विदेशे निर्द्धने चास्मादृशि स्नेहो हि न स्थिरः ॥ ७४ ॥ प्रायः कार्यवशादेव, स्नेहः सर्वस्य जायते । कार्य सर्व धनेन स्यान्निर्धनेन न किंचन ॥ ७५ ॥ सोचे देशः परः स्वो वा, सत्पुंसां नैव कारणम् । न मुञ्चत्यम्बुधित्यक्तं, पाञ्चजन्यं हरिः करात् ॥ ७६ ॥ असारेऽर्थे च दक्षाणां न रागः स्याद् गुणेषु तु । सद्भावः सज्जनानां हि, कोटिकोटिमुपैति यत् ॥७७॥ प्रार्थनां सर्वथाऽप्येनामनुमन्यस्व मे ततः । तन्मतेऽथ तयोर्जज्ञ, संयोगः स्नेहनिर्भरः ॥ ७८ ॥ देवदत्ताऽन्यदा रंगभूमौ नृत्त्वा नृपाग्रतः । पटहं पटुभिः पातैर्मूलदेवस्त्ववादयत् ।। ७९ ।। पुष्टरंगवशातुष्टो विचारधवलो नृपः । अदत्त देवदत्तायै, वरं न्यस्तस्तयाऽथ सः ॥८०॥ मूलदेवः पुनर्धूतव्यसनाद्वसनान्यपि । हारयन् प्रियया वाचा, प्रोचे सानुनयं तया ॥ ८१ ॥ तव राकाशशाङ्कस्याङ्क इव व्यसनं मनुष्यदुर्लभतायां स्वप्न दृष्टान्तः ॥ २७ ॥
SR No.023507
Book TitlePravrajyavidhankulakam
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages278
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy