________________
श्री
प्रव्रज्या०
श्रीप्रधुनीयवृत्ती
॥ २६ ॥
वेश !, प्रवेशमपि नो लभे ॥ ४६ ॥ तद्विभायार्थ ! किङ्कर्यां, दयामय ! दयां मयि । प्रसद्याथ समागत्य मां प्रवेशय वेश्मनि ॥ ४७ ॥ निर्बन्धेन तयेत्युक्तो न्यस्तबाहुः सुबाहुना । गृहीत्वा स गृहं नीतः पुरोभूय प्रवेशितः ॥ ४८ ॥ तां वीक्ष्य विस्मिता देवदत्ता प्राह हलेऽसि का ? । साऽथ वामनवृत्तान्तमाख्यान्ती सर्वमाख्यत ॥ ४९ ॥ अगण्यपुण्यलावण्यं, वामनं वीक्ष्य तं सुदा । तच्चाकर्ण्य सकर्णा सादापयच्चारु विष्टरम् ॥ ५० ॥ निविष्टो विष्टरे तस्मिन्नयं सुस्मितया तया । उक्तस्तां मधुरालापैधैर्हृतहृदं व्यधात् ॥ ६१ ॥ तदा वैणिक एकोऽत्रागत्य वीणामवादयत् । तुष्टा तुष्टाव तं देवदत्ता त्वं साधु साधु भोः ॥ ५२ ॥ मूलदेवोऽवददहो, जानात्युज्जयिनीजनः । अतीवपुण्यनैपुण्यः, सुन्दरासुन्दरांतरम् ॥ ५३ ॥ देवदत्ताऽऽह किं क्षूणमत्र : प्रोवाच वामनः । वंशेऽशुद्धे सगर्भायां तंत्रयां क्षुण्णं स्त्रियामिव ॥ ५४ ॥ कथं ज्ञायत इत्युक्ते, तया स प्राह दर्शये । वीणामथार्पयद्वीणावादकस्तस्य विस्मितः || ५५ || वंशान्तः कर्करं तन्त्रीमध्यात् केशं च सोऽकृषत् । ततः समारचय्यैषोऽवीणयच्च प्रवीणधीः ॥ ५६ ॥ देवदत्ता तदायत्तचित्ताऽभूत् सपरिच्छदा । करिणीव सदाऽऽरावस्वभावा मौनमाश्रयत्॥५७॥ तद् वीक्ष्य स्तब्धकर्णौ च, घूर्णमानौ च विस्मितौ । गणिकावैणिकौ विश्वकर्म्माऽयमिति दध्यतुः ॥ ५८ ॥ गणिका वैणिकं प्रीता, सम्पूज्य व्यसृजत् ततः । भोजना| वसरेऽभ्यर्णेऽभ्यधाच्च निजचेटिकाम् ||५९ || हलेऽङ्गमर्द्दमाहूय, समे ह्यावाहुभावपि । शरीरसज्जनं सद्यो, मज्जनं कुर्वहे यथा ॥ ६० ॥ अनुमन्यस्व मामेव, यथाऽभ्यंग करोम्यहम् । इत्युक्ते मूलदेवेन, सोचे जानास्यदोऽपि किम् || ६१ || स प्राह नैतज्जानेऽहं जानानान्ते स्थितः पुनः । अथ चम्पकतैलेनाभ्यंगमभ्यंगमादधे ॥ ६१ ॥ सुखयन्नयमंगे तां, छविमांसास्थिरोमसु । चक्रे हृतहृदं वित्तं, हृदन्तः सा त्वचिन्तयत् ॥ ६२ ॥ विजानाति शयोऽस्याहो, करयोर्मृदुताऽप्यहो । छन्नवेषस्तदेकः स्यात्, कोऽपि सिद्धः पुमान्
मनुष्यदुर्लभतायां
स्वमदृष्टान्तः
॥ २६ ॥