SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ श्री प्रव्रज्या० श्री प्रद्यु श्रीवृत्तौ ॥ २१ ॥ वक्ष्य, नलदामं कुविन्दकम् । ज्वलनं ज्वलयन्तं तं हेतुं पप्रच्छ सोऽवदत् ॥ ७३ ॥ मत्कोटकेन दुष्टेन, दष्टो मम सुतस्ततः । खनित्वा तालं मूलात् मत्कोटान् विशसाम्यहम् ॥७४॥ श्रुत्वेत्ययं गतः स्थाने, तमाकार्य स कार्यवित् । चक्रेऽसामान्यसेनान्यभन्या यिव्ययबद्धधीः ॥ ७५ ॥ तेनोपचर्य भोज्याद्यैः सकुटुम्बा अपि क्रमात् । तस्करास्ते सविश्वासा, विशस्ता एव चक्रिरे ||७६ || कृत्वेत्यकंटकं राज्ये, कोशार्थार्थं महर्द्धिकान् । आह्नाय तैः समं मद्यपानमारब्धवानयम् ॥ ७७ ॥ जिज्ञासुस्तत्तदाकूतं, स्वयं चामद्यपोऽप्ययम् । उत्थाय नटवन्नृत्यन्नित्यगायत् स मत्तवत् ॥ ७८ ॥ द्वे वस्त्रे धातुरक्ते मे, त्रिदण्डं स्वर्णकुण्डिका । वशे च नृप इत्यर्थे तद्वादयत डुम्बरीम् ॥ ७९ ॥ श्रुत्वेत्यसहमानोऽन्यः, स्वां प्रागप्रकटां श्रियम् । ऊर्ध्वकृत्य भुजं नृत्यन्, प्रकाशयितुमुद्यतः ॥ ८० ॥ यतः क्रुद्धातुरोन्मत्चानुरक्त व्यसनश्रिताम् । म्रियमाणस्य च प्रायोऽभिप्रायो यात्यगोप्यताम् ॥ ८१ ॥ स जगौ च गजे मत्ते, द्विगत्यूतिसहस्रगे । लक्षं पदे पदेऽत्रार्थे, तद्वादयत डुंबरीम् ॥ ८२ ॥ परः प्राहाशिलक्षेत्रे प्रजाते च तिलाढके । लक्षं तिले तिलेऽत्रार्थे, वाद्यतां मम डुम्बरीम् ।। ८३ ।। वक्त्यन्योऽद्रिनदीपूरस्यैका हनवनीततः । बध्नामि पालिमत्रार्थे, तद्वादयत डुम्बरीम् ॥ ८४ ॥ परः प्राह यदेकाहर्जातबालाश्वबालकैः । छादयामि नमोऽत्रार्थे, वाद्यतां मम डुम्बरीम् ॥ ८५ ॥ प्रोचे परस्तु यन्मेऽस्ति, रत्नभूतं द्वयं गृहे । एकः शालिभिन्न शालिशालिप्रसवशालितः ॥ ८६ ॥ परो गर्दभिकः शालिश्छिन्नश्छिन्नः प्ररोहति । अस्यार्थस्य समर्थत्वे, वाद्यतां मम हुंबरीम् ॥ ८७ ॥ ऊचेऽन्योऽस्म्यनृणो नित्यसुगन्धः प्रीतिमत्प्रियः । सहस्रद्रविमात्र, वाद्यतां मम डुम्बरीम् ॥ ८८ ॥ तद् ज्ञात्वा द्रव्यमुचितं याचितं चणिसूनुना । मासं प्रत्येकवस्त्रस्य, प्रक्षणं तुरगास्तथा ॥ ८९ ॥ अक्षय्यनिधिवत्किच, कुशूलाः शालिभिर्भृताः । तन्मर्मवेदिना तेन सर्वमित्थमुपाददे ॥ ९० ॥ अन्यदा देवतादत्तावक्षौ चिन्तित - धान्य दृष्टान्तः ॥ २१ ॥
SR No.023507
Book TitlePravrajyavidhankulakam
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages278
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy