________________
श्री
प्रव्रज्या०
श्रीप्रधु श्रीयवृत्ती
॥ २० ॥
(36
जठरात्पठरादिव । अभोजयदिमं बालं, कालज्ञश्चणिनन्दनः ॥ ५५ ॥ निशायां स गतो ग्रामे, भिक्षार्थी स्थविरागृहे । पर्यवेषि तयाऽर्भाणां तदा चोष्णा विलेपिका || ५६|| एकश्च क्षिप्तहस्तोऽन्तः, प्लुष्टः क्रोशंस्तयोदितः । मूढ ! त्वमपि चाणक्यतुल्यो भोक्तुं न वेत्सि रे ॥ ५७ ॥ तत्पृष्टा साऽवदत्पूर्व, सर्व गृह्येत पार्श्वतः । तद्विचार्य गतो बालं, भिक्षया तमभोजयत् ॥ ५८ ॥ गत्वाऽथ हिमवत्याह, मैथ्या पर्वतकं नृपम् । राज्यं विभज्य सौन्दर्यरीत्या नन्दस्य गृह्यताम् ॥ ५९ ॥ तन्मतः पार्श्वतो देश, क्रमेणादातुमुद्यतः । पुर्वेकस्यां त्वभंगायां, त्रिदण्डीभूय सोऽविशत् ॥ ६० ॥ मत्वा तदिन्द्रकन्यानां माहात्म्यं लोकनेोदितः । मायया ताः समुत्थाप्य तत्पुरं स्वकरेऽकरोत् ॥ ६१ ॥ इति देश वशीकृत्य, पुष्टोऽर्थेन बलेन च । सोऽरौत्सीत् पाटलीपुत्रं सर्वतः सह पार्वतैः ||६२ || नन्दो मन्दाक्षमन्दोऽथ, धर्म्मद्वारं विमार्गयन् । गच्छेकेन रथेनार्थं, गृहीत्वेत्युदितस्ततः ॥ ६३ ॥ भार्याद्वयं च कन्यां चार्थे व्यावृत्य रथेन सः । निर्यान्मौयं प्रपश्यंतीमपश्यत्तनुजां भृशम् ॥ ६४ ॥ नन्देन सा व्रजेत्युक्ता, यदारोहद्रथे तदा । भग्ना नवारका चन्द्रगुप्तश्चैतां न्यवारयत् ।। ६५ ।। त्वद्वेश्या भाविनो भूपा, नवेति चणिसूनुना । प्रोक्तेऽन्यरथमारोप्य, तां शस्ये न्यविशत् पुरे ॥ ६६ ॥ अन्तः पर्वतकेऽप्येते, द्विभागं सर्वमाहितम् । तत्र नन्दप्रयुक्ताऽऽसीत्, कन्या च विषवासिता ॥६७॥ तदिच्छुः पर्वतस्तस्याः, पाणिग्रहमकार्यत । भ्रमन्नम्यग्नि मूर्च्छावांश्चन्द्रगुप्तमुवाच तत् ॥ ६८ ॥ वयस्य ! म्रियते सोऽथ, तत्प्रतीकारकारकः । विकटां भृकुटिं कृत्वा, चाणक्येन निषेधितः ॥ ६९ ॥ यदुक्तं तुल्यसामर्थ्यं, मर्मज्ञं व्यवसायिनम् । अर्द्धराज्यहरं भृत्यं, यो न हन्यात् स हन्यते ॥ ७० ॥ चन्द्रगुप्तः स्थितो तूष्णीं, संस्थितः पर्वतस्ततः । अभूतां चंद्रगुप्तस्य, राज्य| भागवुभावपि ॥ ७१ ॥ अन्यदा नंदगृह्येषु, देशोपद्रवकारिषु । चाणक्योऽमार्गयच्चौरग्राहमुग्रतरं नरम् ।। ७२ ।। गतः पुराद्वहि
१ मनुजदुर्लभतायां
पाशक
दृष्टान्तः
॥ २० ॥