________________
१ मनुजदुर्लभतायां
प्रव्रज्या श्रीप्रद्यु नीयवृत्ती
साऽपिवच्च
पाशक
दृष्टान्त:
॥१९॥
ABHARASHTRA
मादत्त निवितम् । तदहं दोहदं पुत्र्या, दोहदं पूरयाम्यहो ॥ २९॥ पुत्री च पुत्रीगर्भश्चानेशतां मेति चिंतयन् । उक्तं चाणक्यवाक्यं
तदमन्यत महत्तरः ॥ ३०॥ अथ राकारजन्यन्तर्विवरान्तरसंयुतम् । चाणक्यो विदधे बुद्धिप्रकटः पटमण्डपम् ॥ ३१ ॥ तस्याः सितायुतक्षारपूरितं रौप्यभाजनम् । सबिम्बितेन्दुविम्बं सोऽदीदृशत् तन्मृगीदृशः ॥ ३२ ॥ उक्ता पिबेन्दुबिम्ब तत्, साऽपिबच्च यथा यथा । तथा तथा नरः पूर्व, संकेताद्विवरं पिधात् ॥ ३३॥ चाणक्येऽथ गते पूर्णश्रद्धा सुतमसूत सा । स दत्तचन्द्रगुप्ताख्यः, क्रमशस्तत्र वर्धते ॥ ३४ ॥ चाणक्यो धातुवादेन, कृत्वा किंचन कांचनम् । तत्रैतो राजरीत्या तं, रममाणमलोकयत् ॥ ३५ ॥ देशं कस्यापि कस्यापि, ग्राम क्षेत्रं च कस्यचित् । ददतं तं द्विजःप्रेक्ष्य, प्रोचे किंचिद्ददस्व मे ॥ ३६ ।। गां गृहाणेति बालोक्ते, स प्रोचे कोऽपि हन्ति माम् । बालः प्रोवाच भूरेषा, वीरभोज्या गृहाण तत् ॥ ३७ ॥ तुष्टस्तदुक्तिविज्ञानाद्गां गृहाणेति तद्वचः। पृथिव्यर्थे विचिन्त्यैष, शकुनग्रन्थिमादधे ॥ ३८॥ कस्यायमिति तत्पृष्टे, परिव्राजकपुत्रकम् । तमाख्यद्वालकाः सोऽहमाह तं च चणिप्रसूः ॥ ३९ ॥ ऊचे च चन्द्रगुप्तं त्वां, सत्यभूपं करोम्यहम् । स तेन सह यातश्च, चाणक्योऽमेलयच्चमूम् ॥ ४० ॥ अरुधत् पाटलीपुत्रं, नन्देनाभाजि सोऽचमूः। सचन्द्रगुप्तश्चाणक्यः, प्राणेशव त्राणवर्जितः।। ४९ ॥ पृष्ठे च सादिन्यायाति, मौर्य न्यस्य सरस्य यम् । कुर्वन् रजकतां पृष्टस्तेनाख्यत्तं सरःस्थितम् ॥ ५० ॥ तत्रस्थं वीक्ष्य तं सादी, चाणक्यायाश्वमार्पयत् । मुक्त्वाऽसि कञ्चुकं मुश्चन् , चाणक्येनासिना हतः ॥५१॥ तमाहूयाश्वमारोह्य, स्वेनारुह्यानशच्च सः। तमपृच्छत् किमध्यायि, यदा त्वं कथितो मया ? ॥ ५२ ॥ स प्राह भविता भव्यमित्थं वेश्यार्य एव तत् । चाणक्योऽचिन्तयद्योग्योऽयं न विप्रतिपत्स्यते ॥ ५३ ॥ क्षुधितं चन्द्रगुप्तं च, मुक्त्वाऽन्नार्थोऽविशत्पुरे । तत्कालभुक्तदध्यन्नद्विजोदरमदारयत् ॥ ५४॥ करम्ब स गृहीत्वाऽस्य,
555555AGRA