________________
प्रव्रज्या०
१.मनुजदुर्लभतायां पाशकदृष्टान्तः
श्रीप्रद्युः नीयवृत्ती
॥१८॥
HOCOGECEMECRECRUICHAR
का चारुषु ॥१०॥ खेदमेदस्विनीं दृष्ट्वा, पृष्टा खेदनिबन्धनम् । न किंचिदपि सा पाह, बाष्पाविलविलोचना ॥११॥ सा निःश्वास
वती पत्युनिवन्धेनातिपृच्छतः। आख्यद्दरिद्रतोद्भूतमपमानं पितुर्गहे ॥ १२ ॥ स दध्यौ धिगिदं नःस्व्यं, स्वकुलेऽप्यपमानदम् । मानदं धनवत्वं स्यादपवादविवर्जितम् ॥ १३ ॥ धनिना हि जनो गर्जत्यसत्येनापि सर्वदा। सत्येनापि च निःस्वेन, सज्जलजः है प्रजायते ॥ १४ ॥ किंच कार्य विना स्नेहमर्थहीने च गौरवम् । प्रतिपन्ने च निर्वाह, विरलाः केऽपि कुर्वते ॥ १५॥ ध्यात्वेति लिप्सया सोऽगात, पाटलीपुत्रपत्तने । प्राग्न्यस्तेष्वासनेष्वाद्यासने च विनिविष्टवान् ॥ १६ ॥ आद्यमाचक्रमे तेन, चाणक्येन | यदासनम् । तदलंकुरुते नन्द, एव भद्रासनं यतः ॥ १७ ॥ नन्देन सममायातः, सिद्धपुत्रोऽवदत्तदा। वाडवो निषसादेष, है च्छायामाक्रम्य भूभुजः॥१८॥ उक्तो नृपस्य दास्याऽथ, चाणक्यः शमवाक्यतः। द्वितीयस्मिन्निषीदास्मिनासने द्विजसत्तमः ॥१९॥ इत्युक्तः स तया प्राह, स्थास्यत्यत्र कमण्डलुः । न्यास्थच्च तत्र तत्पूर्व, नात्यजच्च नृपासनम् ॥ २० ॥ इत्थमुत्थाप्यमानोऽयमा
सनान्यपराण्यपि । दण्डयज्ञोपवीताक्षमालाचैररुधद् बुधः ॥ २१॥ दासी प्राह त्यजत्येष, न शठः पीठमादिमम् । रुणाद्धि दुष्ट3 बुद्धिश्च, विष्टराण्यपराण्यपि ॥ २२ ॥ तत् किं वातर्किनैतेन, धृष्टेनेति भुजिष्यया । विप्र उत्थापयांचक्रे, क्रमघातेन विष्टरात् ॥२३॥ | तत्क्षणं चणिनः सूनुर्दारुणः प्रतिघारुणः। प्रतिज्ञामकरोदित्थं, सर्वलोकस्य पश्यतः ॥ २४ ॥ कोशभृत्यमहामूलं, मित्रपुत्रशिफा
कुलम् । नन्दमुन्मूलीयष्यामि, ययुदृढ इव द्रुमम् ॥ २५ ॥ विम्बान्तरितमात्मानं, स जानन् भाविन नृपम् । निर्गत्य मार्ग- | यामास, नरं राज्यधरं चिरम् ॥ २६ ॥ अन्यदा यत्र नन्दस्य, मयूरपरिपोषकः । तद्ग्रामे गतवानेष, परिव्राजकवेषभृत् ॥ २७ ॥ तन्महत्तरपुत्र्याश्च, तत्र गर्भानुभावतः । दोहदश्चन्द्रपानेऽस्ति, भिक्षार्थी प्राविशत् स तु ।। २८ ॥ तत्पृष्टः प्रोचिवान् पुत्रं, यदि मे