________________
१.मनुजदुर्लभतायां
प्रव्रज्या० श्रीप्रद्युनीयवृत्तों
चोल्लकदृष्टान्तः
॥१४॥
*CCEOCOCCC0%At
अपि नाम लभेतासौ, पुनश्चक्रिगृहेऽशनम् । न तु मानुष्यकभ्रष्टो, मानुष्यं लभते पुनः॥१॥ इति नृत्वदुरापत्वे, दृष्टान्तोऽयं निवेदितः। प्रसङ्गादागतं चक्रिकथाशेषं तु कथ्यते ॥२॥ अन्यदा नाट्यसंगीते, प्रपश्यन् पुष्पगेन्दुकम् । मूछा गतः स्मरन् जाति, प्राग् भवान् पश्च सोऽस्मरत् ॥ ३ ॥ ज्ञातुं प्राक्सोदरं श्लोकस्याद्धं स प्रथितं व्यधात् । आस्व दासौ मृगौ हंसौ, मातङ्गावमरौ तथा ॥४॥ अघोषयच्च यः कोऽपि, श्लोकार्द्ध पूरयिष्यति । राज्याई तस्य दास्यामि, न चापूरिष्ट कश्चन ॥५॥ एतच्चाबालगोपालं, कण्ठस्थं पठ्यते जनैः। चित्रजीवोऽन्यदा तत्राऽऽगादेको विहरन् व्रती ॥ ६॥ तं चारघटिकात श्रुत्वोद्याने श्लोकमपुरयत् । यथा नौ षष्ठिका जातिरन्योऽन्याभ्यां वियुक्तयोः ॥ ७॥ तत् पठित्वा मुनेः पार्श्वे, स राज्ञोऽग्रे पपाठ च । पृष्टश्च चक्रिणा तस्य, कविं व्यज्ञपयन्मुनिम् ॥ ८॥ तुष्टिदानं स दत्त्वाऽस्मै, सोत्कण्ठो मुनिमभ्यगात् । वन्दित्वा साश्रुदृक् पूर्वस्नेहात पार्श्व उपाविशत् ।। ९ ॥ धर्मलाभं मुनिर्दवा, कारुण्यक्षीरसागरः । देशनामित्युपाक्रस्त, चक्रयनुग्रहकाम्यया ॥ १० ॥ राजन्नसारे संसारे, सारो धर्मो | जिनोदितः । शरीरलक्ष्मीस्वाम्यादि, सर्वमेव चलाचलम् ॥ ११ ॥ षट्खण्डं भरतं धीर!, त्वयाऽसाधि यथा श्रिये । षड्जीवकायरक्षां त्वं, तथा साधय सिद्धये ॥ १२॥ ब्रह्मदत्तोऽवदद्राज्यं, भुवैतत्तपसः फलम् । सिद्धां हित्वा कृषि नव्यां, कर्तुं हल्यपि नेच्छति ॥ १३ ।। मुनिः प्रोवाच सत्योऽपि, मया त्यक्ताः श्रियः स्त्रियः। तन्नाशे वा स्वनाशे वा, तत्सम्बन्धो हि न स्थिरः ॥ १४ ॥ दासत्वे दंदशूकस्य, दशनान्मरणं स्मरन् । मृगत्वे व्याधवेधाच्च, हंसत्वे कण्ठमोटनात् ॥ १५ ॥ मातङ्गत्वे स्मर चक्रिन्, लोष्टयष्टथादिताडनम् । इयत्यामपि सामन्यां, प्राप्तायां किमु मुह्यसि ॥ १६ ॥ इत्थमुक्तोऽपि नैवायमबुध्यत ततो मुनिः । तमसाध्यतमं ज्ञात्वा, हित्वाऽगात् क्रमतः शिवम् ॥१७॥ भूशक्र इव चक्री तु, चक्रितां पालयत्यलम् । जबज्ञेनान्यदा तस्य, प्राभृते प्रहितो
5555A5%25)