________________
द
प्रव्रज्या० श्रीप्रद्युनीयवृत्ती
दौर्लभ्ये ब्रह्मदत्त कथा
॥१२॥
HOUGUARODUCAMSHEDISHA
गतिस्त्वमेको नौ पुण्यैराकृष्टोऽसि समागतः । उद्वहावां ततो ब्रह्मदत्तस्ते परिणीतवान् ॥ ६४ ॥ रत्वाऽऽनिशं समं ताभ्यां, पुष्पवत्यन्तिकेऽथ ते । आराज्यलाभं सम्प्रेष्यान्विष्यद् रत्नवती स्वयम् ॥६५॥ अदृष्ट्वा तां रजन्नेवापृष्टो द्यूचे न वेम्यहम् । दृष्ट्वा स्त्री कापि दिव्यांगी, कुमारं स्वगृहेऽनयत् ॥ ६६ ॥ रत्नवत्याः पितृव्येन, कारितोपयमोत्सवः । ब्रह्मसूनुस्तया सार्द्ध, भेजे विषय सुखम् ॥६७॥ मृतकार्येऽन्यदाऽऽरब्धे, मन्त्रिसूनोर्द्विजन्मसु । घसत्सु विप्रवेषो द्रागेत्य प्रोचे स मंत्रिसूः॥६८॥ महत्त भोजने तृप्तिः, | साक्षाद्वरधनोर्भवेत् । तच्छ्रुत्वा ब्रह्मभूरेनमाश्लिषत् साश्रुलोचनः॥६९॥ नीत्वाऽतःस्नपयित्वा च, भोजयित्वा च मंत्रिभूः । पृष्टोऽवो-| चत्तदा सुप्ते, त्वयि रुद्धोऽस्मि तस्करैः॥१७०।। हतोऽहं पत्रिणकेन, दस्युना पतितो भुवि । लतान्तरे तिरोधाय, गतेष्वेषु च निःसृतः ॥ ७१ ॥ ग्रामे ग्रामेशतः शुद्धि, ज्ञात्वा त्वामागतः प्रभो! । दृष्ट्वा त्वां दृष्टवांश्चन्द्रं, कैरव इव पार्वणम् ॥ ७३ ॥ ब्रह्मदत्तोऽव| दत् क्लीवैरिव स्थेयं कियच्चिरम् ? । विना पौरुषमस्माभिर्वसन्तोऽथ तदाऽऽगमत् ।। ७४ ॥ तदा च राज्ञो मत्तेभा, स्तम्भमुन्मील्य निर्ययौ । कन्यां स्खलद्गति कांचित, कराग्रेणाग्रहीच्च सः ॥७५॥ हाहारवं कुमारश्च, श्रुत्वाऽभीस्तं प्रधावितः । तां विमोच्य वशी. कृत्य, नागं स्तम्भेऽनयत् क्षणात् ।। ७६ ॥ राजाऽपृच्छत्तदाकारविक्रमाचारविस्मितः । कोऽयं कुतस्त्यस्तं चाख्याद्रत्नवत्याः पितृव्यकः ॥ ७७ ॥ राज्ञा कन्यास्ततो दत्ता, ब्रह्मदत्तः प्रतीष्टवान् । परिणीय च तास्ताभिः, समं रेमे चिरं सुखम् ॥ ७८ ॥ अन्यदैत्य जरत्येका, तं प्रोचे भ्रामितांचला। अस्ति वैश्रवणेभ्यस्य, श्यामेत्याख्या सुता त्वया ॥७९॥ पीलोः करग्रहात् त्राता, सेच्छति त्वत्करग्रहम् । एतावद्रूपसद्रूपजितकामावकामतः ॥८॥ तयेत्युक्तः कुमारस्तं, परिणिन्ये शुभे दिने । सुबुद्धिमन्त्रिणः पुत्री, | नन्दाख्यां मन्त्रिभूः पुनः॥८१॥ ब्रह्मदत्तस्ततो वाराणस्यां कटकभूपतेः । पुत्री कटकवत्याख्यां, लेभे स्वंगां चमूमपि ।। ८२ ॥
SHABASAHASE
॥१२॥