________________
श्री प्रव्रज्या०
श्रीप्रधुनीयवृत्ती
॥ ९॥
क्षिप्ता मातङ्गपाटके | श्रुत्वेत्यहं गतस्तत्र, च्छद्मकापालिकोऽभवम् ॥ १० ॥ प्रतिवेश्य भ्रमन् पृष्टस्तैर्विद्यासाधनं जगौ । मैत्री चारक्षकेणाभूत्तन्मुखाच्च निवेदितम् ||११|| मातस्त्वत्पुत्रमित्रस्ते कुरुते पादनंदनम् । गत्वाऽन्येद्युः स्वयं बीजपूरं सगुटिकं ददौ ॥ १२ ॥ सति ज्ञा ( शीताढ्यां तां मृतां मत्वाऽऽरक्षो राज्ञे न्यवेदयत् । स च संस्कारकान् प्रैषीन् मया तेऽभिहितास्तदा ॥ १३ ॥ कृतेऽधुनाअस्याः संस्कारे, न राज्ञो न च वः शुभम् । गतेषु तेषु स्वस्थानमारक्षकमहं जगौ ॥ १४ ॥ भवान् भवेत् सहायचेतद्विद्यां साधमाम्यहम् । शबेन सम्मते तस्योत्पाट्य नीतः शत्रो बहिः ॥ १५ मण्डलं मण्डयित्वोच्चैरर्चित्वाऽऽरक्षकं ततः । दिक्पूजाछद्मना प्रेष्य, स्वांचां गुटिकयान्यया ॥ १६ ॥ कृत्वा सचेतनां स्वं च ज्ञापयित्वा निवार्य च । रुदतीं तां तातमित्रदेवशमं गृहेऽमुचम् ॥ १७ ॥ युग्मम् ॥ भ्रमन्नागामितो दिष्ट्या, दृष्टस्त्वं पुण्यराशिवत् । तत्पृष्टश्च स्ववृत्तान्तं कुमारोऽपि न्यवेदयत् ॥ १८ ॥ दीर्घातङ्कं पुनः श्रुत्वा, तौ कौशाम्बीं समीयतुः । तत्र सागरदत्तस्य, श्रोष्ठनो बुद्धिलस्य च ॥१९॥ उद्यानेऽपश्यतां लक्षं, पणन्तौ कुक्कुटाहवम् । तत्र जात्योऽप्यजात्येन, भग्नः सागरकुक्कुटः || २० || मन्त्रिभूः सागरं प्राहाजात्यं त्वज्जात्यभङ्गदम् । पश्यामि त्वदनुज्ञातोऽहं तं बुद्धिलकुक्कुटम् ॥२१॥ तन्मुक्तोऽयोमयसूचीयुताघि कुक्कुटं विदन् । निषिद्धो बुद्धिलेनार्धलक्षदानस्य संज्ञया || २२ | मित्रसङ्केततो ब्रह्मदत्तोऽयःसूचिकाः पदोः । आकृष्यायोधयत्तौ द्वौ भग्नो बुद्धिलकुक्कुटः ॥ २३ ॥ सागरो रथमारोप्यानयत्तौ सुहृदौ गृहे । इच्छान्नपानभोगाद्यैस्तत्र तौ तस्थतुः सुखम् ॥ २४ ॥ अन्यदा किश्चिदाख्याय, गते बुद्धिलकिङ्करे । मन्त्री लक्षार्धलञ्चाया, लब्धं हारमदर्शयत् ।। २५ ।। कुमारे निजनामांकं, लेखं तत्र च पश्यति । मूर्त्तं वाचिकमभ्येत्य तावत् सा स्वास्यतो मुदा || २६ || मन्त्रिणे किश्चिदाख्याय, गताऽऽख्यात्यथ मन्त्रिसूः । ततः कुमाराय लेखप्रतिलेखार्थमैदसौ ॥ २७ ॥ मयोक्ता ब्रह्मदत्तस्य कस्य लेखोऽथ
नृत्व
दौल
ब्रह्मदत्त. कथा
॥ ९ ॥