________________
नृत्व
प्रव्रज्या०
श्रीप्रद्युः
दौलेभ्ये ब्रह्मदत्त कथा
नीयवृत्ती
॥८॥
CALCIEWALECHACHAR
पदोऽवधार्यतां तत्रेत्युक्तः सोऽगात् तया समम् । सा प्रोचे मंत्रिमः प्रेषीत् , श्रीकान्ताराजपुत्र्यमुम् ॥१२॥ मंन्त्रिणोपास्यमानोऽयं, ६ निनाय क्षणदां क्षणात् । प्रातचोपनृपं यातः, कुमारो मंत्रिणा सह ॥ ९३ ॥ नृपेण सत्कृतः कन्या, तद्दतां परिणीतवान् ।
ब्रह्मदत्तस्तया सार्द्ध, गणरात्रमतीतवान् ।।९४॥ ब्रह्मदत्तोऽन्यदा क्रीडन् , रहस्येनामुवाच च । एकस्याज्ञातवंशादेः, पित्रा दत्तासि
मे कुतः? ॥९५॥ श्रीकान्ता प्राई तत्कान्ता, वसन्तपुरपत्तने । राज्ञःशबरसेनस्य, सूनुर्मम पिता प्रभो ! ॥९६॥ पर्यस्तो राज्यतः द क्रूरगोत्रिभिः पल्लिमाश्रितः । स सद्योग्रामघातायः, पुष्णाति च परिग्रहम् ॥ ९७ ॥ अहं चतुर्णा पुत्राणां, पश्चाज्जातीत वल्लभा । पित्रोक्ता वत्स ! कथ्यो मे, यस्ते कोऽपि मतो वरः।। ९८॥ वीक्षमाणा सरस्तीराध्वन्यध्वन्यव्रज सदा । त्वां समासादयं नाथ, मनोरथपथातिगम् ॥ ९९ ॥ स पल्लीपतिरन्येद्युग्रामघातकृते ययौ । कुमारोऽपि समं तेन, क्षत्रियाणां क्रमो ह्ययम् ।। १००। ग्रामेऽथ लुट्यमाने द्राक्, कुमारस्य सरस्तटे | नत्वा वरधनुः कण्ठे, लगित्वा चारुदद् भृशम् ॥ १॥ आश्वासितः कुमारण, स|
स्ववृत्तान्तमभ्यधात् । वटाधस्त्वां तदा मुक्त्वा, गतोऽहं नाथ ! पाथसे ॥२॥ प्राप्तो दीर्घभटै रुद्धो, बद्धः पृष्टश्च दस्युवत् । 5 अरे वरधनो! ब्रह्मदत्तः क्वति ? मयोदितम् ॥ ३ ॥ व्याघ्रण भक्षितः स्थानं, दर्शयेति च तेऽवदन् । इतस्ततो भमश्चक्रे, तव संज्ञा दीपलायने ॥ ४ ॥ परिव्राड्दत्तां गुटिका, मुखे निक्षिप्तवानथ । तत्प्रभावाच्च निःसंज्ञो, मृत इत्युज्झितोऽस्मि तैः॥ ५॥ गतेषु तेषु
चाकृष्य, गुटिकां त्वां गवेषयन् । ग्रामे क्वापि परिव्राजमनमत् तेन भाषितः॥ ६॥ अहं वरधनो ! मित्रं, धनोरस्मि पितुस्तव । वसुभागो महाभाग!, ब्रह्मदत्तः क्व वर्तते ॥७॥ मया च कथिते सत्ये, म्लानास्यः स पुनर्जगौ । तदा जतुगृहे दीर्घो, बीक्ष्य चैक करकम् ॥८॥ सुरङ्गां तत्र चापश्यत्तदन्तेऽश्वपदानि च । रुद्धवान् युवयोर्माग, कुपितो धनवे तथा ।।९॥ नष्टो धनुस्ते माता तु,
3555ASASSAGE
॥
८
॥