________________
श्री
प्रव्रज्या०
श्रीप्रद्यु श्रीयवृत्ती
॥ ६ ॥
चुलनीदुष्टचेष्टितम् ॥ ५६ ॥ त्वामक्रिष्टुं सुरंगाऽस्ति, च्छन्ना तातेन दापिता । पाणिघातात् प्रकाश्यैतां ततो निःसर गम्यते ॥ ५७ ॥ इत्युक्तो ब्रह्मस्तेन, तथा कृत्वा रसातले । मातृदुश्चेष्टितनेव, लज्जितः प्राविशत् स तु ॥ ५८ ॥ क्रोशद्वितयमानेन, दीर्घरूपाऽपि साऽद्भुतम् । दत्तरंगा सुरंगाऽभूत्, तयोर्जीवितदानतः ॥ ५९ ॥ धनुर्धृतौ सुरंगातस्तुरंगावधिरुह्य तौ । पश्चाशद्योजनीं यातावथाश्वौ मृत्युमापतुः ॥ ६० ॥ ततः पद्भ्यां गतौ श्रामं, कोष्ठकं ब्रह्मसूनुना । प्रोक्तो वरधनुर्मित्र !, बाधेते क्षुत्तृषा च माम् ॥ ६१ ॥ प्रतीक्षस्वति स प्रोच्य, समानीय च नापितम् । वपनं कारयित्वा च, चूलामात्रमधारयत् ।। ६२ ।। कषायवस्त्रो यज्ञो - पवीती च ब्रह्मनन्दनः । सत्योऽभूत् पिदधे सद्यः, श्रीवत्सं पट्टकेन च ॥ ६३ ॥ ग्रामे च प्रविशन्तौ तौ विप्रवेषावुभावपि । निमन्त्र्य भोजितौ भक्त्या, विप्रेणैकेन सादरम् || ६४ || भोजनान्ते द्विजेनोक्तः, कुमारो गणिकेन मे । पुराऽऽख्यायि समित्रो यः, पट्टच्छन्नभुजान्तरः ॥ ६५ ॥ भुंक्ते तव गृहे तस्य, पदखण्डपृथिवीशितुः । त्वया बन्धुमती देया, स्वसुता तां तदुद्वह ॥ ६६ ॥ तामुद्वा निशां स्थित्वा प्रातः प्रास्थात् समंत्रिसूः । ततः श्रुत्वा पथो रुद्धानुत्पथेनाटवामितौ ॥ ६७ ॥ कुमारं तृषितं मुक्त्वा, वटाघो वारिणेऽगमत् । मंत्रिसूदर्घयोधैश्च रुद्धो बद्ध्वाऽथ दस्युत् ॥ ६८ ॥ ब्रह्मदत्ते व्यधात् संज्ञां, पलायस्वेति सोऽप्यगात् । वनाद् वनान्तरं प्राणवृत्तिं चक्रे फलैर्जलैः ।। ६९ ।। तृतीयादिवसे वीक्ष्य, तापसं तेन संयुतः । गत्वाऽऽश्रमं कुलपतिं ववन्दे तेन भाषितः ॥ ७० ॥ ब्रह्मभूः सत्यमेवाह, प्रोचे कुलपतिस्ततः । दिष्टया भ्रातृव्य ! दृष्टोऽसि, सुखं तिष्ठात्र मेऽन्तिके ॥ ७१ ॥ तेनेत्युक्तश्च तत्रैष, द्विजेनैकेन सख्यभाक् । शस्त्रशास्त्रकलाभ्यासप्रीतः प्रावृषमत्यगात् ।। ७२ ।। शरद्यसौ गतः सार्द्ध, तापसैः समिदाहरैः । गजस्याद्रौ सकृन्मूत्रं वीक्ष्यास्यानुपदं ययौ ॥ ७३ ॥ न्यायाध्वनीनः सोऽध्वानमतीतः पंचयोजनीम् । ददर्शेभं च निर्भ
नृत्वदौलभ्ये
ब्रह्मदत्तकथा
॥ ६॥