SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ श्री प्रव्रज्या० श्रीप्रधुनीयवृत्तौ || 8 || क्रोधान्मुनिस्तेजोलेश्यामुदगिरन् मुखात् ॥ २० ॥ तत् ज्ञात्वा सपरीवारकी पौरजनावृतः । तत्राभ्येत्य मुनिं दक्षः, क्षमयामास सामभिः ॥ २१ ॥ चित्रोऽप्यत्रान्तरे ज्ञात्वा सम्भूतमुनिमभ्यगात् । वाक्यैः श्रुतानुगैस्तस्य, सुधीः क्रोधमरोधयत् ॥ २२ ॥ सम्भूतः शान्तकोपोऽथ, चित्रेणानायि तद्वनम् । नृपप्रभृतिको लोको, वन्दित्वाऽगान्निजाश्रयम् ॥ २३ ॥ चित्रः प्रोवाच संभूत!, ग्रासमात्रैषिणोरपि । एवं भवेत्तिरस्कारो, नाहारस्तद् वरं हि नौ ||२४|| इत्यालोच्य मुनी एतौ द्वावप्यनशने स्थितौ । अहंपूर्वि - |कया लोकस्तयोरेति विदिषुः ॥ २५ ॥ चक्री ज्ञात्वा च नमुचिं पराभवकरं मुनेः । बद्धं चतुष्पथेनोर्ध्वेनानयत् साधुसन्निधौ ॥ २६ ॥ तौ वन्दित्वा महाभक्त्याऽदर्शयन्नमुचिं तयोः । मोचितः शोचिताचारोऽप्याभ्यां राज्ञो न कर्म्मणः ॥ २७ ॥ सपत्नीभिश्चतुः पष्टिसहस्रैः परिवारिता । वन्दनाय सुनन्दाऽऽगात्, स्त्रीरत्नमपि तौ मुनी ॥ २८ ॥ तस्याश्च वन्दमानाया, अलकस्पर्शतः पदोः । सम्भूतसाधोः सम्भूतः सर्वाङ्गपुलकोद्गमः ॥ २९ ॥ अप्यलर्कविषादेतदल कस्पर्शजं विषम् । दुःसहं यद्विपाकानुभवो भावी भवान्तरे ॥ ३० ॥ तपसाऽनेन भूयासं, स्त्रीरत्नपतिरित्ययम् । गते सान्तःपुरे राशि, निदानमकरोन्मुनिः ॥ ३१ ॥ चित्रस्तं प्राह किं मौलिमेवं योजयसि क्रमे । मुक्तिदानप्रभूष्णु त्वं विषयार्थे व्ययँस्तपः || ३२ || ते नेत्युक्तोऽपि सम्भूतो न मिथ्यादुष्कृतं व्यधात् । मृत्वा द्वावपि सौधर्मेऽभूतां देवौ महर्द्धिकौ ॥ ३३ ॥ च्युत्वा चित्रस्य जीवोऽथ, प्रथमस्वर्गलोकतः । पुरे पुरिमतालाख्ये, महेभ्यस्तनयोऽभवत् ॥ ३४ ॥ च्युत्वा सम्भूतजीवोऽपि, काम्पिल्ये ब्रह्मभूपतेः । भार्यायाश्चुलनीदेव्याः, कुक्षौ समवतीर्णवान् ।। ३५ ।। चतुर्द्दशमहा स्वमसूचितागा मिचक्रितः । स्वर्णवर्णोऽभवत् सूनुस्तस्याः सप्तधनूच्छ्रयः || ३६ || ब्रह्ममग्न इवानन्दाद् ब्रह्मभूपतिरस्य च । ब्रह्माण्डविश्रुतामाख्यां ब्रह्मदत्त इति व्यधात् ॥ ३७ ॥ मित्राणि वदनानीव, चत्वारि ब्रह्म नृत्वदौलभ्ये ब्रह्मदत्त कथा ॥ ४ ॥
SR No.023507
Book TitlePravrajyavidhankulakam
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages278
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy