________________
दृत्व
दौलभ्ये
प्रव्रज्या० श्रीप्रद्युम्नीयवृत्ती
ब्रह्मदत्तकथा
चतुर्भिरनपानाद्यैः, प्रतिचर्य पटूकृतः ॥२॥ प्रबोध्यादीक्षयत् सैप, चतुरश्चतुरोऽपि तान् । तन्मध्याद् द्वौ पुनर्द्धर्मे, जुगुप्सां चक्रतुर्मुनी ॥ ३ ॥ तो गत्वा स्वस्ततश्युत्वाऽभूतां शंखपुरे सुतौ । दास्यां शाण्डिल्यविप्रस्य, सर्पदष्टौ च तौ मृतौ ॥ ४॥ कालि. जराद्रौ व्याधेन, हतौ तौ युग्मजो मृगौ । हंसौ गंगातटे बचा, जालिकेन निपातितौ ॥५॥ बाराणस्यां ततो भूत्वा, दत्तमातंगनन्दनौ । चित्रसम्भूतसंज्ञौ तावभूतां स्नेहलौ मिथः ॥६॥ तत्र शंखमहीशन, नमुचिः सचिवो निजः । कृतागा भूतदतस्य, प्रच्छन्नं हन्तुमिष्यता ( मार्पतः) ॥७॥ तेनोचे नमुचिः पुत्रौ, यदि पाठयसे मम । तत् त्वां रक्षामि तद्वाक्यं, स तथैव व्यधादथ ॥८॥ पाठयंस्तौ स तन्मात्रा, विप्लुतः सन् जिघांसितः। भूतदत्तेन ताभ्यां तु, गुरुरित्यपसारितः ॥९॥ ततो निःसृत्य नमुचिहस्तिनापुरमागतः । चक्रे सनत्कुमारेण, चक्रिणा सचिवो निजः ॥ १०॥ इतश्च चित्रसम्भूतौ, मिलितावश्विनाविव । सद्गीतिगानतो हाहाहहूप्रतिकृती इव ॥ ११ ॥ सर्वगन्धर्वसर्वस्वमपूर्वविश्वकार्मणम् । ताभ्यां प्रकाशयद्भया च, न जने कस्य मानसम्? ॥ १२ ॥ चित्रसम्भूतचर्या, गीतनृत्यमनोज्ञया । अन्यदा पौरचर्चर्यः, सर्वा अपि विजिग्यिरे ॥ १३ ॥ राज्ञाऽथ प्रविशंतौ तौ, पुरस्यान्तनिषेधितौ । राजाऽज्ञाभंगमादाय, प्रविष्टावन्यदा पुरे॥ १४ ॥ गायन्तावुपलक्ष्यैतौ, लोष्टयष्टयादिभिर्हतौ । आरक्षेण च लोकैश्च, दूराद् दूरतरीकृतौ ॥ १५॥ निन्दन्तौ स्वं स्वगीतं च, रूपं तारुण्यमेव च । मृत्यवे पर्वतारूढौ, | यावद् झम्पां प्रदास्यतः ॥१६॥ तावच्च मुनिना मृत्योनिषिध्याथ प्रबोध्य च । तौ व्रतं ग्राहितौ तीव्र, तपेते दुस्तपं तपः | ॥ १७ ॥ अन्यदा विहरन्तौ तावागतौ हस्तिनापुरम् । सम्भृतर्षिश्च भिक्षार्थ, प्राविशन् नगरांतरम् ॥ १८ ॥ राजमार्गगतः | सोऽथ, दृष्टो नमुचिमन्त्रिणा । साशंकचित्तस्तनिर्वासने पत्नील्ययुक्त सः॥ १९ ॥ ताडितस्तैरपक्रामन्नपि यावन्न मुच्यते । तावत
% A4%95