________________
श्री
प्रव्रज्या० श्रीप्रद्यु नीवृत्तौ
॥ २ ॥
तत्र च दशाधिकाराः, तद्यथा - दुर्लभत्वं मनुष्यत्वे १, बोधेदुष्प्रापता २ ततः । प्रव्रज्याया दुरापत्वं ३, तत्स्वरूपप्रकाशनम् ४ ॥ १ ॥ तस्या विषमताख्यानं ५, धर्म्मस्य फलदर्शनम् ६ । व्रतनिर्वाहकत्वं च ७, श्लाघा निर्वाहकर्तृषु ८ || २ || मोहक्षितिरुहोच्छेदो ९, धर्म्मसर्वस्वदेशना १० । इत्थं प्रकरणेऽमुष्मिन् दशद्वारविवेचनम् ॥ ३ ॥ तंत्र प्रकरणस्यास्य महार्थस्यापि सूत्रेण स्वल्पत्वान्मनसैवेष्टदेवतां नमस्कृत्य प्रथमगाथया परमपदसौख्यमुख्य निबन्धनमनुष्यत्वस्यैव दुर्लभतामाह
संसारविसमसायर भवजलवडियाण संसरंताणं । जीवाण कहवि जइ होइ जाणवत्तं व मणुअत्तं ॥ १ ॥
संसार एव विषमः पोतप्राप्तावपि दुस्तरत्वात् सागरः - समुद्रः तत्रापरापरजन्मजले पतितानां संसरतां - परिभ्रमतां जीवानां कथमपि महता कष्टेन यानपात्रमिव मनुष्यत्वं यदि भवति, यतो महाभीष्मं मोहदुर्द्दिनं प्रबला विषयकुवाता वेला इवाधिरोहति नवनवा मनोरथाः महायाद इव दुर्वारो मकरध्वजः आवर्त्ता इव दुस्तराः कषायाः नागदन्ता इवोत्कटा रागद्वेषाः महोर्मय इव दुःखपरम्पराः और्वानल इवापध्यानं वेत्रवल्लीव स्खलन हेतुर्ममता नेत्रचक्रमिव कुविकल्पजालं महामत्स्या इव व्याधयः सर्वैरपि पोतभंगहेतुभिरन्वितो विषमः संसारसमुद्रः, अत एव मनुजत्वपोतस्य दुर्लभत्वेन दृष्टान्तदशकं सूचयति, ते चामी
चुल्लग १ पासग २ घन्ने ३ जूए ४ रयणे य ५ सुमिण ६ चक्के य ७ । चम्म ८ जुए ९ परमाणू १० दस दिहंता मुणेयव्वा ॥१॥ तत्र चुल्लगशब्देन देशपरिभाषया भोजनमुच्यते, तत्र दृष्टान्ते श्रीब्रह्मदत्तचक्रिकथा, तथाहि -साकेतस्वामिचन्द्रावतंसस्य तनयो व्रतम् । पुराऽऽदान् मुनिचन्द्राख्यो, मुनेः सागरचन्द्रतः ॥ १ ॥ सार्थाद् भ्रष्टोऽन्यदाऽटव्यां, ग्लानो गोपैः स वीक्षितः ।
संसार विषमता
॥२॥