________________
श्री प्रव्रज्या०
श्री प्रद्यु श्रीवृत्ती
॥२२७॥
द्यानादायातस्तां दधद् वृदि ॥ ५० ॥ अन्यदा राजपुत्रोऽयं, राजमार्गमधि व्रजन् । अश्वाधिरूढः शुश्राव, बहुलं तुमुलं पुरे ॥ ५१ ॥ दध्यौ किं क्षुभितोऽम्भोधिर्ज्वलितो ज्वलनः क्रिमु १ । किं प्राप्तं रिपुसैन्यं वा !, तडिद्दण्डः पपात किम् ? ॥ ५२ ॥ इति चिन्तयता तेन, सहसा महसाऽद्भुतः । बलादुन्मूलितालानो, महामात्रसमुज्झितः ।। ५३ ।। मारयन् गोचरायातान् शुण्डादण्डेन | हेलया । साक्षाद्यम इवागच्छन्, तेनैको ददृशे गजः ॥ ५४ ॥ पातयन् परितोऽप्यदृगृहदेवकुलादिकम् । प्रचण्डः स क्षणादेव, कुमारस्य पुरोऽभवत् ।। ५५ ।। प्राकारादिस्थितो लोकः, कुमारं व्याजहार तम् । करिमार्गादपसरापसरेति महारवैः ।। ५६ ।। कुमारस्तुरगं हित्वा गजमाकारयत् कृती । पीलुः काल इव क्रुद्धोऽन्वधावत च तं प्रति ॥ ५७ ॥ सिन्धुरस्य पुरः सोऽथ न्यस्तवानुत्तरीयकम् । क्रुधाऽन्धश्व मदान्धव, विध्यति स्म स तन्मुहुः || ५८ || कुमारः पृष्ठभागे तं प्राहरद् दृढमुष्ठिना । बली तत्र भ्रमंचक्रभ्रमेण तमखेदयत् ।। ५९ ।। सुचिरं खेदयित्वा तं वशीकृत्य च भृत्यवत् । कुमारो गजमारोहदारोहकशिरोमणिः ॥ ६० ॥ तद्वीक्ष्य कौशलं भूपः, सौघसप्तमभूमिगः । पप्रच्छ वेत्रिणं कोऽयं, बालोऽवालो निजैर्गुणैः ? ।। ६१ ।। तेजसा तेजसामीशः, सोमः सोमतया तया । रूपेणाप्रतिरूपेण, हृतकंदर्पदर्पकः ॥ ६२ ॥ स प्राहैष कलाचार्यसदने वीक्ष्यतेऽनिशम् । कलापरिश्रमं कुर्वन्, | ज्ञायते न परम्परा || ६३ ॥ राज्ञा हृष्टेन पृष्टेन कलाचार्येण भाषितम् । अभयाध्येषणापूर्व, सर्वं तस्य कुलादिकम् ॥ ६४ ॥ तुष्ट नृपः प्रतीहारं, प्रहित्याकारयत्ततः । कुमारमयमालाने, न्यस्य नागं मुदाऽनमत् ॥ ६५ ॥ पंचांगेन प्रणामेन, प्रणामेच्छुर्महीभुजा । परिरभ्य दृढं दौर्भ्यामासने स निवेशितः ।। ६६ ॥ तं च ताम्बूलदानाद्यैः परिपूज्य नरेश्वरः । निध्यायन्नेनमध्यायदुत्तमः पुरुषो ह्ययम् || ६७ || धम्म मूलं सुखानां यो, व्यवसायः श्रियां पुनः । दर्पो मूलं विनाशानां गुणानां विनयः पुनः ॥ ६८ ॥
९ मोहतरू
च्छेदः अगडदत्तः
॥२२७॥