________________
%
मोहतरू
च्छेद
अगडदत्त:
%3A%
तं च व्यतिकरं मत्वा, कुमारः सारमाश्रयन् । अमर्पणमना: खड्गसखः प्रचलितस्ततः॥१४॥ त्यक्त्वा गिरिसरिद्रामपुराचं पितृदेशप्रव्रज्या० जजम् (वजन्)। पूतां सुरसरिद्धारां, प्राप वाराणसीमसौ ॥१५॥ गंगाग्रे यत्र पार्श्वस्य, कायकान्त्यायनीनिभैः। तद्देशनासरस्वत्यां, श्रीप्रद्यु
त्रिवेणीसंगमोऽभवत्॥१६॥तत्र भ्रमन्नयं पुर्यामपर्यायधृतश्रमः। दध्यौ वन्ध्यं नृजन्मापि,ममाभूनिष्फलत्वतः॥१७||मयाऽऽत्मवरिणा नीयवृत्ती या मित्रद्वेषवैरिजनश्रिता । निखिलो वैरितां नीतो, जनः परिजनोऽपि च ॥१८॥ कलासमीरणं स्वस्य, कलाचार्य लभे यदि । तत्प्राग्
लग्नरजापुञ्जमधुनाऽपि धुनाम्यहम् ॥ १९ ॥ इति वैराग्यतो ध्यायनयं चित्ते नयं दधत् । पुरश्चरन् कलापात्रं, बहुशास्त्रं स ऐक्षत ॥२२५॥ ॥ २० ॥ अपृच्छच्च नरं कंचिद्, वृद्धं कोऽयं महापुमान् ? । कीदृक्कीदृक्कलापात्रं, किंनामा ? किं पठत्ययम् ? ॥ २१ ।। स प्राहेष
कलाचार्यः, कलासु सकलास्वपि। नाम्ना पवनचण्डश्च, प्रचण्डः प्रतिवादिषु ॥ २२ ॥ शिक्षन्ते नृपतेः पुत्राः, शस्त्रशास्त्रकलादिकम् । श्रुत्वेति तत्समीपेऽसौ, जगाम च ननाम च ।। २३ ।। उपविष्टश्च पृष्टश्च, कुतस्त्वामीत ? तेन सः। एकान्ते कथयामास, वृत्तान्तं निखिलं निजम् ॥ २४ ॥ कलाचार्येण स प्रोक्तः, शिक्षात्र त्वं स्थितः कलाः । इदं तु गोप्यं वक्तव्यं, नापरस्य परं त्वया | ॥ २५ ।। आदेश इति तेनोक्ते, कलाचार्यों नृपात्मजः । समं तेन च धामागात्, पत्न्यग्रे भ्रातृज जगौ ॥ २६ ॥ तेन सा प्रणता पुत्रस्येव स्नानाशनादिना । वात्सल्यं विदधे तस्मै, सुधीर्वस्त्रादिकं ददौ । २७ ।। ऊचे च स्यन्दनाश्वादि, मदीयं भवनं धनम् । सर्वमेव तवायत्तं, यथेच्छ वत्स ! गृह्यताम् ॥ २८ ॥ स सन्तुष्टमनाः ऋराध्यवसायपराङ्मुखः। तस्यैव सदने तस्थौ, शिक्षमाणः कलावलिम् ॥ २९॥ गुरौ विनयवान् विश्वजनानन्दप्रदायकः। स कालेनाल्पकेनापि, जग्राह सकलाः कलाः ॥ ३० ॥ स विज्ञातकलोऽप्येवं, भवनोद्यानगं सदा । तदेकायत्तचित्तः सन्न मुंचति परिश्रमम् ॥ ३१ ॥ उद्यानस्यान्तिके तस्य, प्रधानश्रेष्ठिनो
MAHAR
AC
*
॥२२५॥
-CN-00-1