________________
श्री प्रव्रज्या०
श्री प्रद्युनीयवृत्तौ
॥२२०॥
त्यादि, अन्य एव दन्ता गजवराणां युद्धादिविधुरावस्थासहायाः प्रकाशविशदाश्च यत्तु चर्वणीयं वस्तु तदन्यैरेव मुखमध्यस्थैः कृष्णै ( शै) श्वर्वयन्ति इति गाथार्थः ॥ अथ तुर्यगाथया अमुमेवार्थं व्यनक्ति
वंसी सुहेण छिज्जह कड्डिज्जह दुकरं कुडंगाओ। पव्वज्जा सुहगहिया सीलभरो दुव्वहो होह ॥१८॥ (२०) वंश वंशजालिका सुखेन छिद्यते, यच्च कुडङ्गान् मिथोमिलंती शाखा गहनात् कृष्यते तद् दुष्करं इति, प्रथमं दृष्टान्तमुपन्यस्य दार्शन्तिकं योजयति प्रव्रज्या सुखग्राह्या - सुखेनापि गृह्यते, शीलभर :- अष्टादशसहस्रशीलांगभारो दुर्वहो भवति, स हि धन्यैरेवोह्यते, न त्वन्यैरिति गाथार्थः ॥ किमिति दुर्वह इति पंचमगाथया कययति-
1
वुज्झन्ति नाम भारा तेच्चिय वुज्झंति वीसमंतेहिं । सीलभरो षोढव्वो जावज्जीवं अवीसामो ॥ १९ ॥ (२१) ऊयंते नामेत्याप्तोक्तौ आमन्त्रणे वा भाराः, ते श्चियशब्दस्य व्यवहितसम्बन्धात् उद्यन्ते विश्राम्यद्भिरेव, शीलभरो हि महादुर्वहो वोढव्यो भवति इह जीवितावधि, विश्रामरहितो निरन्तरमित्यर्थः । अत्रार्थे सह्यगिरि सिद्धयतिवरस्य कथा, तथाहि सह्यशैलस्योपत्यकानित्यमण्डनम् । समस्ति कोंकणं नाम नगरं नगराजितम् ॥ १॥ तस्य स्वामी नृपः सह्यशैले धान्यानि भूरिशः । आरोहयति वाहीकैरतो रोहयतेऽपि च ॥ २॥ सुखासनसमारूढोऽन्यदा भूमीपतिगिरिम् । आरोहन्नायतोऽपश्यद्वाहीकान् भारभारितान् ॥ ३ ॥ भूरिभारभराक्रान्तांस्तान्निरीक्ष्य नराधिपः । व्यतरद् वरमुद्भूतसद्भूतकरुणामयम् ॥ ४ ॥ मार्गो देयो मयाऽप्येषां कस्याप्येभिः कदापि न । वरेण तेन ते भूवन्नतीव प्रमदस्पृशः ||५|| इतश्च सिन्धुदेशीयः कश्चिद्यतिवरः परः । विषयैर्वाधितो बाढं, प्रव्रज्याभारमत्यजत् || ६ || स शुद्धहृदयत्वेन कृत्यकृत्यमिदं विदन् । दध्यौ स्वं दमयाम्युच्चैर्भारवाहन कर्मभिः ||७|| यन्महामोहमाहात्म्यात्,
अविश्राम
शीलभर
दुष्करता.
॥२२०॥