SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ श्री प्रव्रज्या० श्रीप्रद्यु म्नीयवृत्ती ॥२१५|| 359%84543% न्यदा ॥ ७१ ॥ ते वज्रमूर्चुवत्स! त्वं, सद्गुरोर्भद्रगुप्ततः । दशपूर्वभृतोऽवन्त्यां, दशपूर्वमधीष्व तत् ॥७२॥ स गुर्वाज्ञां दधच्छी], | ७व्रतयतियुग्मयुतो ययौ । रजन्यामुज्जयिन्याश्च, नगर्या न्यवसद् बहिः ॥ ७३ ॥ भद्रगुप्तो गुरुः शिष्यान् , ब्रूते स्वमे नवोऽतिथिः । निर्वाहद्वारे | पतद्ग्रहं पयःपूर्ण, पीत्वा तृप्तः क्षणादभृत् ।। ७४ ॥ दशपूर्वीग्रही तावत्, कोऽप्यद्यातिथिरेष्यति । दिष्ट्या न मयि विच्छेदो, श्रीवज्र| दशपूर्ध्या भविष्यति ॥ ७५ ॥ मुदा सूरौ वदत्येवं, बज्रो नैषधिकी वदन् । विवेश वसतिं पश्चात् , प्रथमं तु गुरोमनः ॥ ७६ ॥ दृष्टान्तः प्रणमन् पादयोर्वज्रः, कराभ्यां गुरुणाऽऽददे । आश्लिष्य भाषितो ज्ञात्वाऽऽकृत्या वज्रो ह्ययं सुधीः ॥७७॥ कच्चित् सुखविहारस्ते?, गुरुः कुशलवांस्तव? । किमवन्त्या विहारस्य, कारणं वज्र ! पण्डित! ॥ ७८ ॥ वज्रः प्राहाखिलं भव्यमस्ति पूज्यप्रसादतः । अध्येतुं दशपूर्वी तु, पूज्यान गुर्वाज्ञयाऽऽगमम् ॥७९॥ प्रभो! प्रसीद तन्मय, दशपूर्वीप्रदानतः । तेनेत्युक्ते गुरुयत्नात्तस्मै तां प्रत्यपादयत् ॥ ८० ॥ भद्रगुप्ताज्ञया वोऽगच्छद्दशपुरं प्रति । तत्र सिंहगिरिः पुर्यामनुज्ञां चास्य निर्ममे ॥८॥ पूर्वानुज्ञोत्सवे सूरिपदे च जम्भकामरैः। प्राग्जन्ममित्रैवनस्य, महाँश्चक्रे महोत्सवः॥८२ ॥ ततः सिंहगिरिः स्वर्ग, गृहीतानशनोऽगमत् । श्रीवज्रमुनिराजस्तु, विजहार महीतले ॥ ८३ ॥ मुनिपञ्चशतीयुक्तो, यत्र यत्रागमद्विभुः। श्रीवज्रस्तत्र तत्राभू-10 जनस्तद्गुणरञ्जितः ॥ ८४ ।। इतश्च पाटलीपुत्रे, धनाख्यधनिनः सुता। कन्याऽस्ति रुक्मिणी नाम, रूपेणान्येव रुक्मिणी ॥ ८५ ॥ धनस्य यानशालायां, स्थिताः साध्व्यो गुणस्तवम् । बज्रस्याहार्निशं तेनुः, पुण्याहं यद् गुरुस्तुतिः ॥८६॥ तद्गुणश्रेणि- ॥२१५॥ माकर्ण्य, रुक्मिणी वज्ररागिणी। ऊचे निश्चयतः श्रीमान्, वज्र एव पतिर्मम ॥ ८७ ॥ साध्व्यस्तामवदन् मुग्धे ! , निष्फलोऽयं ग्रहस्तव । सा पाहाहं तदादेशवशा स्थास्यामि संयमे ॥ ८८ ॥ इति निश्चयतः कन्या, सा न चक्रे वरान्तरम् । श्रीवज्रोऽपि PDARBHANGADGEORG
SR No.023507
Book TitlePravrajyavidhankulakam
Original Sutra AuthorN/A
AuthorPradyumnasuri
PublisherRushabhdev Kesarimal Jain Shwetambar Sanstha
Publication Year1938
Total Pages278
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy