________________
श्री
प्रव्रज्या० श्रीप्रद्युः म्नीयवृत्ती
व्रतनिर्वाहद्वारे श्रीवज्रदृष्टान्तः
॥२१४॥
क्षे बजेऽथ, वलिते स्वं निवेद्य ते । विद्यां वैक्रियलब्धि च, दत्त्वा तस्मै तिरोदधुः।। ५४॥ तैरेवामन्त्रितो देवैर्वजो घृतवरैः
| परैः । पूर्ववद्विद्ययाऽऽकाशगामिन्या सहितश्च तैः ॥ ५५ ॥ पदानुसारिप्रज्ञावान्, स्थिरीचक्रे मुनिर्जवात् । अङ्गान्येकादशाप्येष, किश्चित्पूर्वगतादपि ॥५६॥ मुनिवृद्धैः पठेत्युक्ते, शक्तिव्यक्तिमनाश्रयन् । शुश्रावान्यानधीयानान् , कुर्वन् गिणगिणस्वरम् ॥ ५७॥ | वाहेगुरुषु भिक्षार्थ, गतेष्वपि च साधुषु । वसतौ वज्र एकाकी, सन्निवेश्याथ वेष्टिकाः॥ ५८ ॥ शिष्यालीनामिवैतासां, स्वयं
गुरुरिव स्थितः । प्रारेभे वाचनां दातुं , स्वयमंगगताश्रिताम्॥५९॥ युग्मम् ।। गुरुस्तां वाचनावाचं, श्रुत्वाऽध्यायत् किमागताः। भिक्षां कृत्वा महाप्रज्ञाः, स्वाध्यायैः पालयन्ति माम् ? ॥ ६॥ विभाव्य वज्रस्यैकस्य, स्वरं मुदितमानसः । दध्यौ धन्यो ह्ययं गच्छो, बालो यत्रेदृशश्रुतः ॥ ६१ ॥ क्षोभो मा भूदमुष्यति, चकार द्वारमाश्रितः । गुरुगुरुतरारावरुचिनषेधिकीवचः॥ ६२॥ वज्रो गुरोः स्वरं श्रुत्वा, न्यस्य स्थानेषु वेष्टिकाः । एत्यादाय गुरोर्दण्डं, पदरेणु ममाज सः ॥ ६३ ॥ गुवंघ्रिरजसा भाले, स कृतालेपनः शिशुः । गुरुक्रमो क्रमज्ञोऽयं. प्रक्षाल्याम्भोऽभ्यवन्दत ।। ६४ ।। गुरुर्तापयितुं साधु, मत्वाऽस्थ प्रतिभाप्रभाम् । निश्यूचे दिवसान् द्वित्रान्, यामो ग्रामान्तर वयम् ।। ६५ ॥ वाचनाग्राहिणः प्राहुर्वाचनां कः प्रदास्यति । वज्रस्तच्च गुरुप्रोक्तं, तत्तथेति प्रपेदिरे ॥ ६६ ।। प्रातर्गते गुरौ ग्राम, मुनयो विनयोज्ज्वलाः । गुरुवन्न्यस्य तं तस्मादाददुस्ता वाचनाम् ॥ ६७ ॥ तं बालमपि तत्कालमति सन्देहभेदने । गुरोरपि गुरुप्रीत्या, दृदृशुस्ते सुदर्शनाः ॥ ६८ ॥ सूरयोऽय समायाताः, पपृच्छुर्वाचनासुखम् । तेऽप्यूचुवाचनाचार्यो, बज्र एवास्तु नः सदा ॥ ६९ ।। श्रुतशेषमशेष च, गुरुर्वज्रमपाठयत् । उदग्राहयदप्येनं, तथाङ्गोपाङ्गसंभवम् ।। ७० ।। दृष्टिवादो गुरोर्यावाँस्तावन्तं तमशिक्षयत् । पुरं दशपुर जग्मुः, सर्वज्ञाः सूरयोs
SUPEECHECCCCRECACHER
॥२१४॥