________________
श्री प्रव्रज्या० श्रीप्रद्युम्नीयवृत्ती
प्रशंसा
॥२१॥
15345343434:060
॥१॥ रूपवन्तो वयःस्थाश्च, विश्वव्यामोहकारिणःस्त्रीसंगैरर्थभंगैश्च, न ये भिन्ना नमामि तान् ॥२॥ अत्रार्थे श्रीवजस्वामिदृष्टान्तः, निर्वाहक तथाहि-अवन्तीविषये तुम्बवनाख्य सन्निवेशने । धनिपुत्रो धनागरिनाम्नाऽऽस्ते धार्मिकः सुधीः ॥१॥ पितरौ यत्र यत्रास्य, |कने कन्यां ययाचतुः । तत्र तत्र व्रतेच्छं स्वं, कन्यापित्रोः शसंस सः॥२॥ सुनन्दा धनपालेभ्यकन्याऽऽह पितरौ निजौ । विना है। श्री धनगिरिं नान्यो, मान्यो मम वरोऽवरः ॥३॥ व्रतेच्छवेऽपि तस्मै सा, पितृभ्यां प्रददे ततः । भेजे धनगिरिस्तां चान्यदा वजस्वामी कर्मनियोगतः ॥ ४ ॥ श्रीदसामानिको देवस्तस्याः कुक्षाववातरत् । मत्वा चापन्नसत्त्वां तामूचे धनगिरिः सुधीः ॥५॥ यत्रार्यसमितो नाम, भ्राता प्रवजितस्तव । ग्रहीष्यामे व्रतं तस्मादहं सिंहगिरोर्गुरोः ॥ ६॥ इदमुक्त्वा च मुक्त्वा च, तां सगर्भामसौ कृती । व्रतमादाय निर्मायस्तपस्तेपे सुदुस्तपम्।।७।। सुनन्दा सुदिनेऽसूत. सुतं तस्याः सखीजनः। प्रतिजागरणायातस्तमेवं बालमालपत् ॥ ८॥ अग्रहीष्यत्तपस्या ते, तातस्तात !न चेत्पुरा । अभविष्यत्ततः कीदृग् , वत्स ! जन्मोत्सवस्तव?॥९॥ तदाकर्ण्य | स वालोऽपि, ससंज्ञः कर्मलाघव्वात् । जातजातिस्मृतिश्च्छत्तातस्य पथि पान्थताम् ॥ ४॥ अम्बां विलक्षतां नेतुं, रुदन|स्थादहर्निशम् । सदोलांदोलनोभिश्चटुश्चित्रदर्शनैः॥ १०॥ अब्दा रुदता तेन, स्मृतिज्ञानेन संज्ञिना । नन्दनेन निरानन्दा, | सुनन्दा विदधेऽधिकम् ॥९२।। अन्यदा धनगिर्यार्यसमितादिभिरावृतः । आचार्यसिंहगिर्याख्यस्तत्रागात् सन्निवेशने ॥ १३ ॥ धनगिर्यार्यसमिती, विचार्य शकुनं गुरुः । प्राहाचित्ता सचित्ता वा, भिक्षा ग्राह्याऽद्य हे मुनी! ॥ १४ ॥ सुनन्दासदनायातौ, जनी
॥२१॥ | तस्या सखीजनैः। वीक्ष्य प्रोक्ता सुनन्देति, मुनये सूनुरर्यताम् ।। १५॥ तेनात्युद्विजिता सा च, दोामुत्पाट्य बालकम् । ॐ मुनि धनगिरि प्राह, गृहाणामुं निजांगजम् ।। १६ ॥ स्मरन् गुरुवचः सोऽभूमूचे कुर्वत्र साक्षिणः । पश्चात्तापवती पश्चाद्वालं न
COM