________________
श्री
प्रव्रज्या०
श्रीप्रद्युनीयवृत्तौ
॥२१२॥
लभसे शुभे ! ॥ १७ ॥ सुनन्दा साक्षिणः कृत्वा, निर्विण्णा तनयं ददौ । न्यस्तश्च पात्रबन्धेऽसौ विरतश्चानुरोदनात् ॥ १८ ॥ पितरं विरतं प्राप्य, विरतो रोदनादसौ । मुनिहस्तगतो युक्तं, बालो मौनमवाप सः ॥ १९ ॥ सुनन्दा मन्दिरादे तावुपेतौ मुदितो मुनी । गुरुर्धनगिरिं वीक्ष्य, भारितं चाभ्यधावत ॥ २० ॥ बालस्य बलिनो भाराद्भज्यमानभुजान्मुनेः । पात्रबन्धं करे चक्रे, बालं वज्र|मिति ब्रुवन् ||२२|| गुरुर्वलक्षदृग् वीक्ष्य, तं सुलक्षणलक्षितम् । उवाच शासनस्यायं, बालो भावी प्रभावकः ॥ २२ ॥ अहं सिंहगिरिः सिंहपोतेनानेन जाग्रता । सत्याभिधो भविष्यामि, वादिद्विरदमर्द्दिना || २३ || नररत्नमिदं यत्नरक्ष्यमेवमुदीर्य सः । आर्याणामर्पयामास, वालं पालयितुं गुरुः || २४ || आर्याः शय्यातरीणां तमापयंस्ताच मातृवत् । स्वापत्यनिर्विशेषं तं मुदा बालमपालयन् |||२५|| आक्रीडयन्नधुश्चाङ्केऽस्वपयन्नप्यमण्डयन् । अपीप्यन् प्रस्तुकान् नित्यं, स्तन्यस्तन्यं स्तनन्धयम् ||२६|| बालकः स च नीहाराहारादिषु सचेतनः । न किंचिद् दुःखकृत्तासां चक्रे वक्रेतराशयः ।। २७ ।। तं बालं नालपद्या च, व्याकुला यत्र वासरे । तं मेने सा वृथा साध्वी, यथाऽऽवश्यकवर्जितम् ॥ २८ ॥ प्रत्युपेक्षानिरीक्षादि, प्राशुकान्नाशनेऽपि च । अर्माणि शिक्षयनेष, साध्वीवर्गममोदयत् ||२९|| शय्यातरी सुनन्दायै, याचन्त्यै नार्पयत् सुतम् । साऽप्यन्यनारीसामान्यं, जिघृक्षुस्तमपालयत् ॥३०॥ अथैयुधर्नगिर्याद्यास्तत्र वज्रे त्रिवार्षिके । सुनन्दाऽजनि सानन्दा, सुताऽऽदानकृताशया ॥ ३१ ॥ सूनुं सुनन्दा साधुभ्यो, ययाचे न ददुश्च ते । लोकोऽवादीदमुं वादं नृपो निर्वाहयिष्यति ॥ ३२ ॥ सुनन्दा स्वजनैयुक्तोपाविक्षद्वामपक्षतः । नृपस्य दक्षिणे पक्षे, सङ्घभट्टारकः पुनः ॥ ३३ ॥ भाषोत्तरं द्वयोर्ज्ञात्वा बभाषे नृपतिस्ततः । येनाहूतः समायाति, तस्य स्तादेष बालकः ॥ ३४ ॥ अयं पक्षद्वयेनापि, निर्णयो मन्यते स्म च । ऊचे च प्रथमं पुत्रमाकारयतु कः पुनः ।। ३५ ।। खीपक्षाः प्रोचिरे बालः,
६ निर्वाहक
प्रशंसा
श्री वज्रस्वामी
॥२१२॥