________________
श्री
प्रव्रज्या०
श्री प्रद्युश्रीयवृत्ती
॥२०७॥
विलः | अमात्यैः प्रतिबोध्यैष स्वकृत्येषु प्रवर्त्तितः ॥ २५ ॥ स्वामिमोक्ष दिनात्पञ्चपूर्वलक्षी लक्षयत् । यान्तीं निमेषवन्नैष, विष्वग्गोचरगोचरः ॥ २६ ॥ अन्यदा विहितस्नानो, हरिचन्दनचर्चितः । देवदृष्याण्यदूष्याणि, वसानो वसनान्यसौ ॥ २७ ॥ बिभ्राणो मुकुटं मूर्ध्नि, कर्णयोः कुण्डलद्वयम् । ग्रैवेयकं च ग्रीवायामङ्गदे बाहुरङ्गदे ॥ २८ ॥ अंगुलीष्वंगुलीयानि, मुक्ताहारं च वक्षसि । चरणद्वितये योग्यचरणाभरणानि तु ॥ २९ ॥ श्रीनाभेयकुलान्धीन्दुसनाभिमृगनाभिजाम् । विच्छिरसि ताम्बूलमास्ये पञ्चसुगन्धिकम् ॥ ३० ॥ चतुःषष्टया सहस्रैश्च सुभद्रादिभिरावृतः । प्रेयसीभिः स्मरक्षमापद्वाराचलगकैरिव ॥ ३१ ॥ निजश्रीभरतश्चक्री, भरतः शक्रसन्निभः । रत्नादर्शगृहे गत्वाऽऽत्मादर्श समलोकत || ३२ ॥ षभिः कुलकम् ॥ इतश्च निश्चयोपात्तपरिव्रज्येन बाहुना । या तपः श्रीः समाराद्धा, पूर्वलक्षाश्चतुर्दश ॥ ४३ ॥ एकान्ते चैकदा सैवाभ्येत्य श्री केवलिश्रिया । अभिलाषातिदुःखिन्या, सुतयेव निजा प्रसूः ॥ ४४ ॥ नातस्तदा मयाऽज्ञायि, सङ्गं त्वं जनयिष्यसि । भवेऽत्रैव ममानेन वरेण सह बाहुना ॥ ४५ ॥ तैस्तैस्तदातनैस्तस्येङ्गितैरन्तस्तरंगितैः । बाढं बद्धानुरागं मां, तदा वेत्ति भवत्यपि ॥ ४६ ॥ दैवयोगात् परं नाभूत्तदा मे तेन संगमः । सर्वार्थसिद्धि सम्प्राप्तस्तवाप्यजनि दूरतः ॥ ४७ ॥ गृहिणीरहितं तत्र, तं श्रुत्वा श्रुतवाक्यतः । तस्मिन्न त्यक्तवत्यस्मि, रागं दूरगताऽपि हि ॥ ४८ ॥ अधुना स प्रियः प्राप्तस्तीर्थकृत्पुत्रतामपि । अभद्राभिः सुभद्राभिः स्त्रीभिर्विप्लाव्यतेऽधिकम् ।। ४९ ।। विश्वलोकस्वभावायाः पश्यन्त्या अपि मे पुरः । मत्प्रियो भुज्यतेऽन्याभिनारीभिः किं करोम्यहम् ||५०॥ स्वदुःखं तदिदं मातस्तवाग्रे कथितं मया । यथा तथापि तं नाथं मम मेलय हेलया ॥५१॥ तपःश्रीः प्राह किं वत्से !, करोमि । गृहभेदतः । विनष्टं हि तदा कार्यमेतज् ज्ञातं मया स्वयम् ।। ५२ ।। परस्य मिलित ह्यात्मजने
६ धर्मफलद्वारं भरतचक्री
॥२०७॥