________________
P
आयोषाढः
प्रव्रज्या० श्रीप्रद्युः नीयवृत्ती
॥१९५॥
भाषत ॥ ४७ ॥ स्वयं संरोपिता वृक्षाः, खानितं च स्वयं सरः। स्वयं प्रवर्तितो यज्ञः, किं बेबे वस्त! भाषसे ? ॥ ४८ ।।
श्रुत्वेति संश्रितो जोषमेष मेषः सपद्यपि। द्विजेन च मुनिः पृष्टः, किमयं मौनमाश्रितः॥४९॥ तमुवाच त्रुनिस्तातस्तवैष * प्रत्ययोऽत्र कः। द्विजेनोक्ते मुनिः प्राह, कथयिष्यत्ययं स्वयम् ॥ ५० ॥ अनेन भवता चापि, न्यस्तो योऽस्ति निधिगृहे । पृष्टस्त| मेष बस्तस्ते, पदाभ्यां दर्शयिष्यति ॥५१॥ द्विजः सोऽथ पितृचरं, पशुं दर्शितसेवधिम् । अमुचत स मुनेर्भक्तं, प्रत्याचक्ष्य दिवं ययौ ॥ ५२ ॥ इत्यारामसरोयज्ञपशुघातादि कुर्वतः । पशुत्वे शरणं तस्याशरणं समजायत ॥ ५३ ।। अयेऽतिपण्डितोऽसीति, स ब्रुवन् श्रमणब्रुवः । कृकाटिका मोटयितुमारेभे सोऽथ तं जगौ ॥ ५४ ॥ बालवृद्धान्धपंगुस्खीमुनीनां श्रमणश्रिताम् । दीनानां च है वधो भूरिपापव्यापद्विधायकः ॥ ५५॥ तं बालमतिवाचालं, वदन्निति निहत्य तम् । आदाय भूषणान्यस्याप्यन्यतः सोऽ
चलच्चलः॥५६॥ दध्यौ देवोऽस्य चरणपरिणामो गतो ध्रुवम् । तत्परीक्षऽधुना सम्यग्दर्शनं नास्ति वाऽस्ति वा ? ॥५७॥ | ध्यात्वेति गुर्विणी साध्वीमसाध्वीमयमादधौ । भूषितां मंडितां चापि, वीक्ष्य तां सोऽब्रवीदिति ॥ ५८ ॥सर्वांगभूषितेऽशीले. धू
पिते पापरूषिते । जैनमालिन्यकवित्वं ( कारित्वे!) दुष्टशैक्ष्याऽऽगता कुतः? ॥ ५९॥ सोचे सर्पपमात्राणि, परच्छिद्राणि द वीक्षसे । आत्मनो बिल्बमात्राणि, पश्यन्नपि न पश्यसि ॥ ६० ॥ श्रमणः संयतो ब्रह्मचारी तुल्याश्मकांचनः । वैहारिकोसि
ज्येष्ठार्य !, तव किन्नु पतद्ग्रहे ? ॥६१॥ इत्युक्तः स तया हीणो, याति यावत् किलाग्रतः। तावद् वैक्रियमागच्छत्, कटकं वीक्षते स्म च ॥ ६२॥ तद् दूरेण वजन राज्ञो, यतिः सोऽभिमुखोऽभवत् । द्वीपादुत्तीर्य च नतः, प्रोक्तश्चाद्य सुमंगलम् ॥ ६३॥ अहो मे भागधेयानि, यद् दृष्टोऽसि मुनीश्वरः । ततः प्राशुकपाथेयग्रहेणानुगृहाण माम्॥६४॥ स नैवेच्छति वक्त्यन्यं, नाद्य पारणकं
AAAAAAAA