________________
श्री
प्रव्रज्या०
श्रीप्रधुश्रीयवृत्तौ
॥१९४॥
नीडनिवासिनाम् । तेषां च तत्र जातानि शिशुरूपाणि कालतः ॥ २९ ॥ अथोद्गता लता वृक्षान्तिके वेष्टति तं च सा । उपरिष्टाद्विलग्नाथ, बभूव फलभाजनम् ॥ ३० ॥ ततस्तदनुसारेण, तत्रारूढो भुजंगमः । हेलया निशि रूपाणि, भक्षयामास पक्षिणाम् ॥ ३१ ॥ तैरप्युक्तमथो पूर्व, शाखिन्यध्युषितं सुखम् । मूलादभ्युत्थिता वल्ली, जातं शरणतो भयम् ॥ ३२ ॥ तस्यापि हि गृहीतेषु, भूषणे - घृणावता । त्रसकायाभिधः षष्ठस्तथैवाकथयत् कथाम् ॥ ३३ ॥ एकस्मिन्नगरे क्वापि, परचक्रेण रोधिते । मातङ्गास्तद्वहिर्भागाः, प्रविशन्ति पुरान्तरे ॥ ३४ ॥ अन्तर्निवासिभिर्लोकैर्निर्वास्यन्ते च ते बहिः । बहिश्च परचक्रेण, गृह्यते कश्चिदाह च ||३५|| अन्तर्निवासिनः क्षुब्धाः, प्रेरयन्ति बहिर्नरान् । दिशं भजत मातङ्गा, जातं शरणतो भयम् ||३६|| तथाऽप्यमुञ्चत्याचार्ये, स आख्यात्यपरां कथाम् । पुरे क्वापि नृपः स्तेनः पुरोधाः प्रणिधिः पुनः ॥ ३७ ॥ तावुभावपि सर्वस्वं हरतः परतः सदा । परिज्ञाय जनस्तच्च, पठति स्मेति सस्मितः ॥ ३८ ॥ यत्र राजा स्वयं स्तेनो, हेरिकश्च पुरोहितः । वनं भजत हे पौरा !, जातं शरणतो भयम् ॥ ३९ ॥ तथाऽप्यम्मुच्यमानोऽयं, कथयत्यपरां कथाम् । वर्णज्येष्ठेन केनापि खानितं प्रवरं सरः ॥ ४० ॥ पालौ देवकुलं तस्यारामस्तेन च रोपितः । प्रवर्त्तितस्ततो यज्ञः, पशुमारणलक्षणः ॥ ४१ ॥ इति प्रवृत्तिं तां कृत्वा स द्विजन्माऽन्यजन्मनि । बभूव च्छगलत्वेनार्त्तध्यानवशतो मृतः ॥ ४२ ॥ तथैव तनयास्तस्य, पशुघातमखं सदा । सरस्यां तत्र कुर्वन्ति, गुर्वन्तिकविलोकिताम् (गुर्वाजकं विलोकता ) ॥ ४३ ॥ चरन्तं तं पितृचरं, तेऽपश्यन् पशुमन्यदा । मखं चिकीर्षवो मूल्यं, दत्त्वा नैषुर्गृहे च तम् ॥ ४४ ॥ जातिस्मरः सरस्तीर, | नीयमानो मखावनौ । छगलः स गलन्यस्तरज्जुर्वेबेव चोऽवदत् ॥ ४५ ॥ अयं चानागतश्चापि गतौ मम भवाविति । द्वौ द्वाविति वदत्येष, मन्ये प्राकृतभाषया || ४६ || बाढस्वरेण शोचन् स, ज्ञानिना मुनिना श्रुतः । तस्य तस्य सुतानां च प्रबोधायेत्य
दर्श
आयषाढः
॥ १९४ ॥